सामग्री पर जाएँ

महाचोळमन्दिराणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महाचोळमन्दिराणि
विश्वपरम्परास्थानानि

गङ्गैकोण्डचोळपुरस्य शिल्पकला
राष्ट्रम् भारतम्भारतम्
प्रकारः सांस्कृतिकम्
मानदण्डः i, ii, iii, iv
अनुबन्धाः २५०
क्षेत्रम् एषियापेसिफिक्
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८७  (एकादशं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

महाचोळदेवालयाः भारतस्य तमिळ्नाडुराज्ये सन्ति । चोळवंशीयैः राजभिः निर्मिताः तञ्जावूरुप्रदेशस्य बृहदीश्वरदेवालयः गङ्गैकोण्डचोळपुरस्य गङ्गैकोण्डचोळेश्वरदेवालयः, दारासुरस्य ऐरावतेश्वरदेवालयः च मिलित्वा महाचोळदेवालयाः इति कथयन्ति । क्रि.श. १९८७तमे वर्षे बृहदेश्वरदेवालयं क्रि.श. २००४तमे वर्षे अन्यदेवालयद्वयं विश्वपरम्परावल्यां प्रविष्टम् । महाचोळमन्दिराणि चोळवंशीयैः राजभिः दक्षिणभारते निर्मितानि ।

बृहदेश्वरदेवालयः युनेस्कोसंस्थया क्रि.श.१९८७तमे वर्षे विश्वपरम्परास्थानम् इति उद्घुष्टः । क्रि.श. २००४तमे वशे ऐरावतेश्वरमन्दिरम् अस्याम् आवल्यां प्रवेशितम् । अद्य अयं देवालयसमूहः महचोळमन्दिराणि इति कथ्यते ।

बृहदीश्वरदेवालयः[सम्पादयतु]

अयं देवालयः भारतदेशस्य तमिळ्नाडुराज्यस्य तञ्जावूरुपत्तने स्थितः हैन्दवदेवालयः । एतन्मन्दिरं क्रि.श.१००३-१०१०तमकाले चोळवंशस्य प्रथमः राजराजचोळः निर्मितवान् । अनेन कारणेन एतन्मन्दिरं राजराजेश्वरमन्दिरम् इत्यपि कथयन्ति । तदानीन्तनकालस्य गणनायाम् एतन्मन्दिरम् अतिविशालसंरचनम् इति परिगण्यते स्म । १३अट्टानाम् अस्य गोपुरस्य औन्नत्यं ६६मीटर् अस्ति । (हैन्दवमन्दिरेषु अट्टानां सङ्ख्या असमी एव भवति) एतन्मन्दिरं शिवस्य आराधनार्थं समर्पितम् अस्ति । अयं देवालयः वास्तुकलायाः, शिलाशिल्पाङ्कनस्य, ताम्रशिल्पाङ्कनस्य, प्रतिमाविज्ञानस्य, चित्रकलायाः, नृत्यस्य ,सङ्गीतस्य, आभूषणस्य, उत्कीर्णकलायाः भाण्डारः अस्ति । अस्मिन् मन्दिरे भित्तिषु प्राचीनसाहित्यानि संस्कृतेन तमिळ्भाषया च उत्कीर्णानि । अस्य मन्दिरस्य निर्माणशैली विशिष्टाअ अस्ति यत् अस्य गोपुरस्य छाया भूमौ नैव पतति । गोपुरशिखरे स्वर्णकलशः स्थितः । यस्मिन् पाषाणे अयं कलशः स्थितः तस्य भारं प्रायः ८०टन् समग्रा शिला एका एव च भवति । मन्दिरस्य गर्भगृहे प्रतिष्ठापितं भव्यं बृहत् शिवलिङ्गं पश्यति चेत् अस्य बृहदीश्वरः इति नाम सार्थकम् अस्ति । मन्दिरस्य अन्तः प्रविश्य पश्यति चेत् गोपुरस्य अधः वर्गमण्डपम् अस्ति । तत्र लघुवेदिकायां बृहदीश्वाभिमुखः महानन्दी विराजमानः अस्ति । नन्देः ६मीटर् दैर्घ्यं, २.६मी.वैशाल्यं, ३.७मी औन्नत्यं च अस्ति । भारतवर्षस्य शिलावृषभेषु द्वितीयः अतिबृहत् नन्दी अयम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]