डिण्डोरीमण्डलम्
डिण्डोरीमण्डलम् Dindori District | |
---|---|
डिण्डोरी जिला | |
डिण्डोरीमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे डिण्डोरीमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | डिण्डोरी, शाहपुरा |
विस्तारः | ७,४७० च. कि. मी. |
जनसङ्ख्या (२०११) | ७,०४,५२४ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६३.९०% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-५०% |
Website | http://dindori.nic.in/ |
डिण्डोरीमण्डलम् ( ( शृणु) /ˈdɪndoʊriːməndələm/) (हिन्दी: डिंडोरी जिला, आङ्ग्ल: Dindori district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति डिण्डोरी इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]डिण्डोरीमण्डलस्य विस्तारः ७,४७० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे अनूपपुरमण्डलं, पश्चिमे उमरियामण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे छत्तीसगढराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं डिण्डोरीमण्डलस्य जनसङ्ख्या ७,०४,५२४ अस्ति । अत्र ३,५१,९१३ पुरुषाः, ३,५२,६११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ९४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९४ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.३२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००२ अस्ति । अत्र साक्षरता ६३.९०% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले द्वे उपमण्डले स्तः । ते- डिण्डोरी, शाहपुरा ।
कृषिः वाणिज्यं च
[सम्पादयतु]बॉक्साइट, अङ्गारः, चूर्णपाषाणः इत्यादयः अस्य मण्डलस्य प्रमुखाः खनिजाः सन्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]राष्ट्रिय-जीवाश्म-उद्यानं, घुघवा
[सम्पादयतु]डिण्डोरीमण्डलस्य घुघवा इत्यत्र राष्ट्रिय-जीवाश्म-उद्यानम् अस्ति । जीवाश्म-उद्यानेषु समग्रे एशिया-खण्डे अस्य उद्यानस्य प्रथमं स्थानम् अस्ति । घुघवा इत्यत्र अनेकानां वृक्षाणाम् अवशेषाः प्राप्ताः ये कालान्तरे पाषाणत्वेन परिवर्तिताः अभवन् । ’डायनासोर’ इत्यस्य प्राणिनः अण्डानि अपि प्राप्तानि । अतः बहुसङ्ख्याकाः जनाः द्रष्टुं तत्र गच्छन्ति । इदं स्थलम् आकर्षणस्य केन्द्रम् अस्ति ।
जलपान कैफेटेरिया एवं कपिलधारा-कलाकेन्द्रम्
[सम्पादयतु]जलपान कैफेटेरिया एवं कपिलधारा-कलाकेन्द्रम् अमरकण्टक-नगरात् ५ कि. मी. दूरे अस्ति । इदम् एकं रमणीयस्थलम् अस्ति । अस्य निर्माणम् एकस्मिन् तडागे कारितम् अस्ति । पर्यटकाः तत्र गत्वा आदिवासि-खाद्यविशेषाणां, ’चाईनीज’-खाद्यविशेषाणां च आनन्दं प्राप्नुवन्ति । डिण्डोरीमण्डलस्य सर्वे हस्तशिल्पिनः स्वकीयानां कलाकृतीनां निर्माणं कुर्वन्ति । ततः परं ताः कलाकृतयः कपिलधारा-कलाकेन्द्रं प्रेषयन्ति । तत्पश्चात् कपिलधाराकेन्द्रे तासां कलाकृतीनां क्रय-विक्रयश्च भवति ।
कपिलधारा-जलप्रपातः
[सम्पादयतु]कपिलधारा-जलप्रपातः अमरकण्टक-नगरात् ५ कि. मी. दूरे अस्ति । अयं नर्मदायाः प्रथमः जलप्रपातः अस्ति । अत्र ७० फीट उपरिष्टात् जलं पतति । अस्य प्रपातस्य अधः स्थित्वा स्नानात् पुण्यप्राप्तिर्भवति । उच्यते यत् यदा नर्मदा रुष्टा गच्छन्ती आसीत् तदा कपिलमुनिना तस्याः मार्गः अवरुद्धः किन्तु रुष्टा नर्मदा ततः मार्गम् उल्लङ्घ्य अग्रे गतवती ।
कारोपानी
[सम्पादयतु]कारोपानी डिण्डोरी-नगरात् ७३ कि. मी. दूरे अस्ति । अस्मिन् अरण्यानि सन्ति । तेषु अरण्येषु प्राणिनः स्वच्छन्दरीत्या भ्रमणं कुर्वन्ति । तेषु मृगाः, भल्लुकाः, वानराः इत्यादयः प्राणिनः सन्ति । तेषाम् अरण्यानां प्राकृतिकसौन्दर्यम् अपि रमणीयम् अस्ति । जनेभ्यः विहाराय इदं सुन्दरं स्थलम् अस्ति ।
जबलपुरमण्डलम् | ||||
उमरियामण्डलम् | अनूपपुरमण्डलम् | |||
डिण्डोरीमण्डलम् | ||||
छत्तीसगढराज्यम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये डिण्डोरीमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://dindori.nic.in/
http://www.census2011.co.in/census/district/320-dindori.html