गुलजारीलाल नन्दा
गुलजारीलाल नन्दा | |
---|---|
भारतस्य प्रधानमन्त्री | |
कार्यालये 11 January 1966 – 24 January 1966 | |
राष्ट्रपतिः | Sarvepalli Radhakrishnan |
पूर्वगमः | Lal Bahadur Shastri |
पादानुध्यातः | Indira Gandhi |
कार्यालये 27 May 1964 – 9 June 1964 | |
राष्ट्रपतिः | Sarvepalli Radhakrishnan |
पूर्वगमः | Jawaharlal Nehru |
पादानुध्यातः | Lal Bahadur Shastri |
Minister of Home Affairs | |
कार्यालये 29 August 1963 – 14 November 1966 | |
प्रधानमन्त्री | Jawaharlal Nehru Lal Bahadur Shastri Indira Gandhi |
पूर्वगमः | Lal Bahadur Shastri |
पादानुध्यातः | Yashwantrao Chavan |
व्यक्तिगत विचाराः | |
जननम् | Sialkot, Punjab, British Raj (now in Pakistan) | ४ १८९८
मरणम् | १५ १९९८ New Delhi | (आयुः ९९)
राजनैतिकपक्षः | Indian National Congress |
मुख्यशिक्षणम् | Allahabad University |
जालस्थानम् | गुलजारीलाल नन्दा |
जन्म
[सम्पादयतु]गुल्जारिलाल् नन्दा क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्के पञ्जाब्राज्यस्य सियाल्कोट्इत्यत्र जन्म प्राप्तवान् । एतस्य पिता कश्चन सामान्यशिक्षकः । अलहाबाद् विश्वविद्यालये अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् [१]। एतेन सह न्यायशास्त्रस्य परीक्षाम् अपि समापितवान् ।
स्वातन्त्र्यान्दोलने भागः
[सम्पादयतु]गान्धिमहोदयस्य प्रभावेन असहकारान्दोलने भागं गृहितवान् । किन्तु आन्दोलनं यदा हिंसा रूपं प्रति परिवर्तितं सत् स्थगितम् अभवत्, तदा गुल्जारिलाल् नन्दः अर्थशास्त्राध्यापकवृत्तिम् आरब्ध्वान् । उद्यमकार्मिकाणां समस्याविषये एतस्य अधिका आसक्तिः आसीत् । अतः १९२२ तमे वर्षे न्याषनल् टेक्सटाइल्स् असोसियेषन् इत्यस्य सङ्घस्य कार्यदर्शी गुल्जारिलाल् नन्द्ः अभवत् ।
राजकीयप्रवेशः
[सम्पादयतु]१९३७ तमे वर्षे मुम्बयीराज्यसभा सदस्यः अभवत् । तदा १९३७ तः १९३९ पर्यन्तं कार्मिकराजदेयविभागयोः संसदीयकार्यदर्शिरूपेण सेवां कृतवान् । अनन्तरं १९४६ तः १९५० पर्यन्तं मुम्बयीसर्वकारस्य कार्मिकसचिवः भूत्वा कर्मकराणां समस्यानां विषये शासनरचने यशस्वी अभवत् । गुल्जरिलाल् नन्दः कस्तूरबा मेमोरियल् न्यासस्य अध्यक्षः, हिन्दूस्थान मज्दूर् सेवकसङ्घस्य कार्यदर्शी, तथैव मुम्बयीगृहमण्डल्याः अध्यक्षः, राष्ट्रियसमित्याः सदस्यः च भूत्वा सेवां कृतवान् । १९४७ तमे वर्षे अन्ताराष्ट्रियकार्मिकसमावेशे भारतस्य प्रधानी भूत्वा भागं गृहितवान् । एषः समावेशः लण्डन्- स्वीडन्- फ़्रान्स्- बेल्जियम्- इन्ग्लेण्ड्देशानां कर्मकराणां वसतिसमस्यायाः अध्ययनं नियोजनं च अकरोत् ।
विशिष्टकार्यक्रमेषु भागः
[सम्पादयतु]१९५० तमे वर्षस्य योजना समितेः उपाध्यक्षः अभवत् । अनन्तरं केन्द्र सर्वकारः एतं योजनासचिवः इति न्ययोजयत् । एतेन कार्येण सह जलविद्युत्विभागयोः दायित्वम् अपि निरूढवान् । १९५२ तमे वर्षे निर्वाचने जयं प्राप्तवान् एषः पूर्वतनविभागे एव कार्यं कृतवान् । १९५५ तमे वर्षे सिङ्गापूरे आयोजिते योजनासमीतेः समावेशे तथैव १९५९ तमे वर्षे जिनीवायाम् आयोजिते अन्ताराष्ट्रियकार्मिकाणां सभाम् अपि एषः भारतस्य अधिकृतप्रतिनिधिरूपेण भागं गृहितवान् । १९५७ तमे वर्षे प्रवृत्ते निर्वचने गुल्जारिलाल् नन्दः जयं प्राप्तवान् । तदा कार्मिक-उद्योग- योजनाविभागानां केन्द्रसचिवः इति नियुक्तः । अनन्तरं योजनायोगस्य उपाध्यक्षः अभवत् । १९६२ तमे वर्षे पुनः गुजरातस्य समरकण्डतः निर्वाचितः एषः समाजवादिनीत्या सर्वकारस्य अवधानम् आकृष्टवान् । तस्मिन् एव वर्षे कार्मिक-उद्योगसचिवः भूत्वा एषः १९६३ तः १९६६ पर्यन्तं गृहसचिवः अभवन् । श्रीमत्याः इन्दिरागान्ध्याः सचिवसम्पुटे गृहसचिवः एषः नन्दः १९७० तमे वर्षे किञ्चित् कालं यावत् रेल्वेसचिवः अपि अभवत् । तदा प्रयाणिकानां कृते अनेकव्यवस्थाः कृतवान् । रेल्वेविभागः स्वसामर्थ्यं प्राप्नोत् । व्ययं न्यूनं कृतवान् । निरुद्योगं निवारयितुं परिश्रमं कृतवान् । धूमशकटयाने तस्य निस्थानके च पानजलस्य तथैव शौचालयस्य व्यवस्थां कृतवान् ।
तात्कालिकप्रधानमन्त्रित्वम्
[सम्पादयतु]१९७२ तमे वर्षे राजकीयनिवृत्तिं स्वीकृतवान् । अनन्तरं भाटकगृहे वासं कृतवान् किन्तु भाटकं दातुम् अपि तस्य समीपे धनं न आसीत् । तस्य आदायस्य मूलं किमपि न आसीत् । मित्राणाम् आग्रहेण स्वातन्त्र्ययोद्धानां निवृत्तिवेतननिमित्तम् आवेदनपत्रं दत्त्वा मासे त्रिशतरूप्यकाणि स्वीकरोति स्म । श्रेष्ठः गान्धिवादी एषः तात्कालिकप्रधानमन्त्रिरूपेण कार्यं निरूढवान् । तात्कालिकमन्त्री चेदपि तस्य निष्ठा श्रद्धा अपूर्वा आसीत् । १९६४तमवर्षस्य मे मासस्य१७ दिनाङ्कतः षोडशदिनानि (नेहरू मरणानन्तरं)यावत् तथा १९६६तमवर्षस्य जनवरीमासस्य ११ दिनाङ्कतः चतुर्दशदिनानि यावत् नन्दः प्रधानमन्त्री आसीत् ।[२]
जीवने आदर्शः
[सम्पादयतु]१९७० तमे वर्षे स्वातन्त्र्योत्सवस्य दिने भारतदेशः एतं भारतरत्नपुरस्कारेण सम्माननं करणीयम् इति चिन्तनम् अकरोत् । किन्तु एषः अनारोग्यस्य कारणेन प्रशस्तिं स्वीकर्तुं न आगतवान् । तदा सह अहमदाबादे पुत्र्याः गृहे आसीत् । १९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्के गुल्जारिलाल् नन्दा शतवर्षाणां जीवनं समाप्य दिवङ्गतः ।
टिप्पणी
[सम्पादयतु]- ↑ "" Internet Archive of Proud Past Alumni"". आह्रियत 27 अप्रैल 2014.
- ↑ "Famous Indians". आह्रियत 27 अप्रैल 2014.