सामग्री पर जाएँ

काजी नजरुल इसलाम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(काजी नज़रुल् इस्लाम् इत्यस्मात् पुनर्निर्दिष्टम्)
काजी नज़रुल् इस्लाम्
কাজী নজরুল ইসলাম
काजी नज़रुल् इस्लाम् (१९२६ संवत्सरे,चित्तग्रामे)
जननम् १८९९ तमवर्षस्य मेमासस्य चतुर्विंशतिः दिनाङ्कः[१]
चुरुलिया, पश्चिमबङ्गःभारतम्
मरणम् १९७६ तमवर्षस्य अगास्ट् मासस्य ऊनत्रिंशत् दिनाङ्कः
ढाका, बाङ्गलादेशः
वृत्तिः कविः, गद्यलेखकः, सङ्गीतकारः, औपन्यासिकः, नाट्यकारः.
भाषा बङ्गाली
उर्दू
फार्सी
राष्ट्रीयता भारतीय, बाङ्गलादेशी[२]
परम्परा बङ्गाली
प्रमुखकृतयः विद्रोही, "अग्निवीणा" ("অগ্নিবীনা","Lyre of Fire") , धूमकेतुः(The Comet), बन्धनहारा(Free from Bonds), नज़रुलगीतिः
प्रमुखप्रशस्तयः एकुशे पदकः
पद्मविभूषण पुरस्कारः
पतिः/पत्नी प्रमिला देवी



हस्ताक्षरम्

काजी नज़रुल् इस्लाम् (मै २४, १८९९ - अगष्ट् २९, १९७६[१]),(ज्येष्ठः ११, १३०६ - भाद्रपद १२, १३८३ बङ्गाब्दः), एकः अग्रणी बङ्गालिकविरासीत् । विंशशताब्द्याः अन्यतमः जनप्रियः संङ्गीतज्ञः दार्शनिकश्च आसीत् । अयञ्च बाङ्गलाभाषायाः साहित्यक- देशप्रेमिरूपेण बाङ्गलादेशस्य राष्ट्रियकविरूपेणापि ख्यातः । पश्चिमबङ्गः एवं बाङ्गलादेशः – उभयत्रापि तस्य कविता-गीतानि समादृतानि । तस्य कवितायाः 'विद्रोही'दृष्टिभङ्गीत्वात् काजी नज़रुल् इस्लाम् महोदयः विद्रोहिकविः इत्यपि नाम्ना ख्यातः । तस्य रचनासु मनुष्याणाम् उपरि अत्याचार-सामाजिकशोषणमेत्यादीनि मुख्यविषयत्वेन प्रतिपादितमस्ति । विंशशताब्द्यां बङ्गनवजागरणे नज़रुलस्य मर्यादा-गुरुत्वञ्च बह्वासीत् । सः कवि-साहित्यिक-सङ्गीतज्ञ-सांवादिक-सम्पादक-राजनीतिविद्रूपेण तथा सैनिकरूपेण अन्यायस्य प्रतिवादम् अकरोत् । नज़रुलस्य रचनासु सैव मनोभावः प्रतिफलति । अग्निवीणाहस्ते तस्य साहित्यलोके प्रवेशः, धूमकेतुसदृशः स्वप्रकाशः आसीत् । तस्य जन्म-मृत्युवार्षिकी विशेषमर्यादया उभयबङ्गप्रदेशे प्रतिवत्सरं जनैः उत्साहेन उद्यापितं भवति ।

नज़रुल् एकस्मिन् दीनपरिवारे अजायत । तस्य प्राथमिकशिक्षा धर्मीयशिक्षा आसीत् । स्थानीये मस्जिदे सः मुयाज्जिनरूपेण (प्रार्थनाहवायकरूपेण) अपि कार्यमकरोत् । कैशरे विविधनाट्यदलेन सह कार्यं कृत्वा सः कविता-नाटक-साहित्यविषयेषु सम्यक् ज्ञानम् अलभत । भारतीयसेनावाहिन्यां स्वल्पदिनानि कार्यकरणानन्तरं सः सांवादिकतां वृत्तिरूपेण पर्यचिनोत् । अस्मिन् समये नज़रुल् कोलकातायाम् आसीत् एवञ्च विदेशीशासनस्य (ब्रिटिश्) विरुद्धम् आचरिते प्रत्यक्षसंग्रामम् प्राविशत् । तेन प्रकशिताः रचनाः शासकविरुद्धत्वात् नज़रुल् महोदयः ब्रिटिशसर्वकारैः कारागारे क्षिप्तः आसीत् । कारागारावासकाले सः राजबन्दीर् जबानबन्दी ('রাজবন্দীর জবানবন্দী', अर्थः - 'राजबन्देः वाक्-बन्धनम्') इति लेखं लिखितवान् । तस्य साहित्यकर्मणा साम्राज्यवादस्य विरोधिता सुस्पष्टम् आसीत् । धर्मभेदस्य विरुद्धे अपि नज़रुलस्य विद्रोहः आसीत् । लघुकथा-उपन्यास-नाटकेत्यादीनि रचनानि सत्त्वेऽपि नज़रुल् महोदयः कविरूपेण अधिकप्रसिद्धः । बाङ्गलाकाव्यपरम्परायां सः एकस्याः नवधारायाः सूचनाम् अकरोत् (इस्लामी-सङ्गीतम् तथा गज़ल्) । परन्तु उत्कृष्टानि श्यामासङ्गीतानि एवं हिन्दुभक्तिगीतानि अपि तेन रचितानि । नज़रुल् महोदयः प्रायः ३००० गीतानि रचितवान् । न केवलं तद् अधिकांशगीतेषु सुरारोपमपि अकरोत् । इदानीं तानि गीतानि 'नज़रुल्-सङ्गीतं' वा 'नज़रुलगीतिः' नाम्ना ख्यातानि । मध्यवयसि सः 'पिक्स्' इति भयानाकरोगाक्रान्तः आसीत्[३]। एतस्मात् सः आमृत्युपर्यन्तं साहित्यकर्मतः विरतः आसीत् । अन्तिमवयसि तस्य मानसिकभारसाम्यं नष्टमासीत् । १९७२ तमे संवत्सरे बाङ्गलादेशसर्वकारस्य आमन्त्रणं प्राप्य नज़रुल् महोदयः सपरिवारं ढाकां गतवान् आसीत् । तत्रैव सः मृत्युवरणम् (अगष्ट् २९, १९७६) अकरोत् ।

जीवनी[सम्पादयतु]

जन्म एवं प्राथमिकजीवनम्[सम्पादयतु]

१८९९ तमसंवत्सरस्य मै मासस्य २४ दिनाङ्के (ज्यैष्ठः ११, १३०६ बङ्गाब्दः) भारतस्य पश्चिमबङ्गराज्यस्य वर्धमानमण्डलस्य चुरुलियाग्रामे नज़रुल् महोदयः अजायत । चुरुलियाग्रामः आसनसोलेति महकुमाविभागे 'जामुरिया' समष्टि-उन्नयन-परिषदि अवस्थितः । एषः(काजी नज़रुल् इस्लाम्) पितामहस्य 'काजी आमिन् उल्लाह्' महोदयस्य 'काजी फकीर् आहमद्' इति पुत्रस्य षष्टपुत्रः । तस्य माता 'जाहिदा खातुन्' आसीत् । नज़रुलस्य पिता मुस्लिम् मस्जिदे 'इमाम्'(याजकः) आसीत् । काजी नज़रुल् इस्लाम् महोदयस्य बाल्यकाले 'दुखु मिया' इति उपनाम आसीत् । १००८ क्रैस्ताब्दे यदा तस्य पितुः मरणम् अभवत् तदा परिवारस्य आर्थिकाभावात् सः बाल्यैव दशमे वयसि जीविकानिमित्तं कार्यकरणम् आरब्धवान् । एतस्मात् नज़रुल् महोदयस्य पारम्परिकशिक्षा स्तब्धासीत् । [१][४]

टिप्पणी[सम्पादयतु]

  1. १.० १.१ १.२ "काजी नज़रुल् इस्लाम्". एशियाटिक् सोसैटी. 
  2. "काजी नज़रुल् इस्लाम् महोदयस्य जन्मवार्षिकोत्सवः". टैम्स् अफ़् इण्डिया. Archived from the original on 2013-11-10. आह्रियत २४ एप्रिल् २०१३. 
  3. फारुक्, डा. मोहाम्मद् ओमर् (२००७-०३-१०). "नज़रुलस्य अस्वास्थ्यम् एवं चिकित्सा" (HTML). Nazrul.org (मार्च् २००७). आह्रियत २००७-०३-१०. 
  4. चौधुरी, दिलीप (२००६-०९-२२). "नज़रुल् इस्लाम्: The unparalleled lyricist and composer of Bengal" (HTML). Press Information Bureau, Government of India. आह्रियत २००६-०९-२२.