सामग्री पर जाएँ

उर्मिला माण्डवी श्रुतकीर्तिः च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Use Indian English

Sita
देवनागरी सीता

फलकम्:Vaishnavismवयं रामायणे सीतादेव्याः,शबर्याः, मन्दोदर्याः, तारायाः च इत्यदीनां नामानि अधिकं श्रुणुमः । किन्तु लक्ष्मणशत्रुघ्नभरतादीनां पत्नीनां नामानि अधिकतया न श्रुणुमः एव । एतस्य कारणं न ज्ञायते । ताः अपि सीता इव पतिव्रताः एव आसन् । तथापि ताः सीतायाः छायाः इव स्थितवत्यः आसन् । माण्डवी श्रुतिकीर्तिः च राज्ञः जनकस्य सहोदरस्य कुशध्वजस्य कन्ये आस्ताम् । ऊर्मिला अपि जनकस्य एव पुत्री आसीत् । जनकस्य मूलनाम सीरध्वजः इति । सीतायाः विवाहेन सह माण्डव्याः, श्रुतिकीर्त्याः, ऊर्मिलायाः च विवाहाः भरततेन शत्रुघ्नेन लक्ष्मणेन च सह अभवन् ।

स्निग्धगुणवत्यः

[सम्पादयतु]

भरतादिसहोदरेभ्यः रामस्य विषये यथा अलौकिकं प्रेम आसीत् तथैव माण्डवि इत्यादीनां सहोदरीणां सीतायाः विषये अनुपमं प्रेम आसीत् । एताः चतस्रः सहोदर्यः महाराजस्य दशरथस्य राजगृहं प्रविष्य तत्र अपूर्वसुखशान्तिसौहार्दताः च निर्मितवत्यः आसन् । एताः चतस्रः सहोदर्याः अपि असाधारणपतिव्रताः आसन् । एतासां हृदयेषु श्रद्धाभक्त्यादरभावाः आसन् । एताः सेवाद्वारा तिसॄणां श्वश्रूणाम् आनन्दवार्धिन्यः अभवन् । एषा मम स्नुषा, एषा सपत्न्याः स्नुषा इति भेदभावः कदापि श्वश्रूणां मनसि नागतः एव । एताः राजकुमार्यः स्वार्थत्याग सहनं धर्मपारायणता विनयः संयमः सेवा सौहार्दं सदाचारः सुशीलता इत्यादिभिः गुणैः सर्वेषां हृदयानि जितवत्यः । पत्युः विषये प्रेम भक्तिः, ज्येष्ठानां विषये श्रद्धा, आदरः, देवराणां विषये उदारता, वात्सल्यभावः च एतासां स्वाभाविकगुणाः आसन् । एतासां स्वभावकारणेन महाराजस्य दशरथस्य विशाले परिवारे कदापि विवादः कलहः वा न भवति स्म । कस्यापि हृदये काश्चिदपि स्वार्थभावना नासीत् । प्रत्येकम् अपि अन्येभ्यः सुखं सन्तोषं च दातुं सज्जाः आसन् । स्वस्य धर्मः इति मत्वा सर्वे एतस्य पालनां कुर्वन्ति स्म । एतस्मिन् एव स्वेषां सन्तोषम् अनुभवन्ति स्म ।

रामवियोगदुःखम्

[सम्पादयतु]

मन्थरायाः प्रेरणया कैकेयी रामस्य वनवासं भवेत् इति यदा उक्तवती तदा माण्डवी अतीवलज्जिता अभवत् । सर्वेषाम् अपेक्षया अधिकः आघातः तस्याः हृदये अभवत् । श्वश्रोः अविवेकस्य कारणेन सा अनन्तरं तस्याः पतिः एव अधिककलङ्कितौ इति विचिन्त्य सा बहुदुःखम् अनुभूतवती । कौसल्या सुमित्रा च तु स्वस्य विषये शङ्कां न कुरुतः इति सा जानाति स्म । एतां योजनां स्त्रीः सती माण्डवी निरूपितवती इति अन्ये मनसि चिन्तयेयुः इति एषा दुःखितवती । स्वार्थसाधानार्थं श्वश्रूं पतिं च प्रभावयित्वा एतम् अग्निं ज्वालितवती इति जनाः चिन्तयितुं शक्नुवन्ति किल ? एतत् सर्वं चिन्तयित्वा तस्याः हृदयं क्वथते स्म । तस्याः हृदये कियती वेदना अस्ति इति तस्याः अश्रुधारा एव दर्शयति स्म । ऊर्मिलाश्रुतिकीर्त्यौ अपि एतया घटनया बहुदुःखम् अनुभूतवत्यौ । एताः स्नुषाः कस्मिन्नपि विषये अग्रे आगत्य विरोधं न कुर्वत्यः । एतासाम् सहोदरीषु तावती नम्रता आसीत् । देवतुल्यस्य ज्येष्ठसहोदरस्य श्रीरामस्य वनवासः । लक्ष्मीसमानायाः सहोदरीसीतायाः तपस्विनी इव अरण्यप्रवेशः । एतान् विषयान् चिन्तयित्वा तासां कोमलहृदयेषु क्षणमपि शान्तिः न न्यवसत् । परन्तु एतासां तिसॄणां सहोदरीणाम् आन्तरिकवेदना अन्यैः न ज्ञायते स्म । सलक्ष्मणः श्रीरामः सीतासमेतः अरण्यं प्रविष्टवान् । एतेन सर्वे दुःखिनः अभवन् । देवतुल्यः श्वशुरः दारुणं शोकं सोढुं न शक्तवान् इत्यनेन परलोकं गतवान् । कौसल्या सुमित्रा च नितरां दुखिते । एतद् सर्वं दृष्ट्वा तिसॄणां सहोदरीणां हृदयानि छिन्नानि इव अभवन् ।

उर्मिलाभिमानः

[सम्पादयतु]

सर्वासामपेक्षया अधिकं दुःखम् ऊर्मिला अनुभूतवती । तस्याः प्राणप्रियः, प्राणाधारः पतिः लक्ष्मणः वनवासं गतवान् आसीत् । तस्य दर्शनेन कुशलसमाचारज्ञानेन एषा वञ्चिता आसीत् । एतस्याः पतिः केनापि दुराग्रहीतः इति अरण्यं न गतवान् । स्वयं इच्छया प्रस्थितवान् आसीत् । पितृभ्यां सदृशयोः अग्रजप्रजवत्योः सेवार्थं सः ताभ्यां सह प्रस्थितवान् । इत्युक्ते सः तस्य आराध्यदेवानां सेवायाः शुभोद्देशेन अरण्यं प्रस्थितवान् । यदि ऊर्मिला तेन सह अगमिष्यत् तर्हि लक्ष्मणस्य कर्तव्यपालने क्लेशः भवति स्म । स्वस्य कारणेन स्वामिनः धार्मिककर्तव्ये विघ्नं कारयितुं का पतिव्रता स्री इच्छति ? एवं चतुर्दशवर्षाणां विरहवेदनायाः भयाग्नौ स्वाम् दहन्ती एव ऊर्मिला जीवितवती । किन्तु पत्युः कर्तव्यपथे विघ्नं न कृतवती । धन्या सा ऊर्मिला या त्यगेनैकेन आदर्शनारी अभवत् । भरतः शत्रुघ्नेन सह मातुलस्य गृहात् प्रत्यागतवान् । द्वौ अपि कैकेय्याः कार्यस्य विरोधं कृतवन्तौ । सिंहासनस्य विषये तयोः आसक्तिः नासीदेव । अग्रजप्रजावत्याः वनवासस्य कष्टानि चिन्तयित्वा तौ असहमानौ रोदनं कृतवन्तौ । लक्ष्मणः एव अतीवः भाग्यशाली इति उक्तवन्तौ । तयोः चिन्तने तस्मिन् समये लक्ष्मणं विना अन्येषां बुद्धिः एव मृता आसीत् इति । किमपि विरोधवचनेन विना लक्ष्मणेन वनवासगमनम् अन्यायम् इति शत्रुघ्नः चिन्तितवान् । अन्यायं विरुध्य सः किमर्थं धनुर्बाणान् न उत्थापितवान् इति सः लक्ष्मणम् आक्षेप्तुम् आरब्धवान् । श्रीरामस्य राज्याभिषेके विघ्नकारकं सः किमर्थं न दण्डितवान् ? इति शतृघ्नः चिन्तयति । भरतशत्रुघ्नयोः एवं निस्वार्थं भावं दृष्ट्वा माण्डवीश्रुतिकीर्त्योः हृदये आनन्दः जातः । तयोः नेत्रेषु करुणानन्दभाष्पः प्रावहत् । पत्योः विषये तयोः अभिमानः संवृद्धः । अतः इदानीं कः वा श्रुतिकीर्तिमाण्डव्योः विषये शङ्कां करोति ? तयोः पत्योः विषयेऽपि कः वा कलङ्कं चिन्तयति । सर्वेषां मुखतः लक्ष्मणस्य स्तुतिं श्रुत्वा विरहिणी ऊर्मिला अमितम् आनन्दम् अनुभूतवती। भरतेन सह सर्वे श्रीरामस्य सीतायाः लक्ष्मणस्य च दर्शनार्थम् अरण्यं प्रस्थितवन्तः । या तान् वनं प्रेषितवती सा कैकेयी अपि श्रीरामदर्शनस्य पुण्येन वञ्चिता न जाता । किन्तु माण्डवी, श्रुतिकीर्ति, ऊर्मिळाः च तदापि अयोध्यायाः राजगृहे एव समाधानेन स्थितवत्यः । वयमपि गत्वा अग्रजायाः दर्शनं कृत्वा तस्याः पादयोः नमस्कुर्मः इति ताः चिन्तितवत्यः । तथापि तथा कर्तुं नाशक्नुवन् । ऊर्मिलायाः तु जीवनसर्वस्वम् अरण्ये एव आसीत् । सा दूरात् एव लक्ष्मणस्य दर्शनं कृत्वा हृदयं शीतलं कर्तुम् इष्टवती आसीत् । किन्तु न शक्तवती । तिसॄणां हृदयेऽपि पत्युः दर्शनार्थस्य उत्कण्टता आसीत् । किन्तु वियोगस्य अग्नौ दग्धाः ताः पतीनां धर्मपालने साहाय्यं कुर्वत्यः आसन् । अतः वियोगाग्निः अपि तासां सुखप्रदः आसीत् ।

भरतस्य प्रत्यागमनम्

[सम्पादयतु]

भरतः अरण्यतः प्रत्यागतवान् । तेन सह अन्येऽपि प्रत्यागतवन्तः । अग्रजप्रजावतीभ्याम् अरण्ये यानि यानि कष्टानि सोढव्यानि भवन्ति तानि सर्वाणि कष्टाणि स्वस्य जीवने अनुभोक्तुं भरतः निश्चितवान् । सः अपि कन्दमूलानि खादन्, वल्कलवसनधारी जटाधारी सन् नन्दिग्रामस्य कस्मिंश्चित् कुटीरे उपविष्टवान् । शत्रुघ्नः तस्य सेवायां निरतः जातः । अयोध्यायाः राजभवने तिस्रः पत्न्यः चतुर्दशवर्षपर्यन्तम् एकैकदिनमपि अङ्गुलीगणनां कुर्वत्यः जीवनं यापितवत्यः । कस्याः अपि पत्युः दर्शनं नासीत् । अरण्ये अस्ति चेदपि सीता पत्युः सामीप्ये आसीत् । किन्तु माण्डवी ऊर्मिला श्रुतिकीर्तिः च राजगृहे स्थित्वापि पतिभ्यः अतिदूरे आसन् । एतासु अपि काचित् भिन्नता आसीत् । माण्डवी श्रुतिकीर्तिः च नन्दीग्रामतः स्वपत्युः समाचारं प्राप्नुवन्ति स्म । किन्तु ऊर्मिलायाः ललाटे तदपि भाग्यं न लिखितम् ।

सुखजीवनं कैवल्यं च

[सम्पादयतु]

एवं राज्ञः जनकस्य चतस्रः कन्याः अपि पितृगृहस्य, पतिगृहस्य च गौरवं परिगणयन्त्यः त्यागेन तपसा च जीवनं यापियन्त्यः आसन् । तासां मनसि कस्यापि विषये, कदापि दुर्भावना तु न उत्पन्ना । एवं त्यागतपसः फलरूपेण सर्वं शुभमेव अभवत् । दुःखस्य दिनानि अतीतानि । सुखदिनानि आगतानि । चतस्रः सहोदर्यः अपि एकत्र मिलितवत्यः । पतीनां समागमः अपि प्राप्तः। माण्डवी पुत्रद्वयं प्रसूतवती । तयोः तक्षः, पुष्कलः च इति नाम अकुर्वन् । द्वौ अपि वीरौ अभवताम् । पुष्कलः शत्रुघ्नेन सह सर्वदेशानाम् अटनं कृत्वा श्रीरामचन्द्रस्य अश्वमेधयज्ञसम्बद्धम् अश्वं रक्षितवान् । भरतेन सह तक्षपुष्कलौ च केकयदेशं गत्वा तत्र स्थितान् कोटित्रयगन्धर्वान् जितवन्तौ । तौ सिन्धूनद्याः उभयतटयोरपि विशालसाम्राज्यं प्रतिष्ठापितवन्तौ । गन्धर्वदेशे (सिन्धुप्रान्ते) तक्षस्य नाम्ना तक्षशिला इति नगरं स्थापयित्वा वर्धितवन्तौ । गान्धारदेशे (अद्यतनम् अफ्घानिस्तानम्) पुष्कलस्य नाम्ना पुष्कलावती (पेषावर) नामनगरस्य स्थापनां कृतवन्तौ । ऊर्मिलायाः अपि अङ्गदः,चन्द्रकेतुः च इति पुत्रौ अभवताम् । कारुपथ देशस्य प्रभुत्वम् अपि एतौ प्राप्तवन्तौ । अङ्गदः अङ्गदीयम् इति राजधानीं निर्मितवान् । चन्द्रकेतुः चन्द्रकान्तम् इति नगरं राजधानीम् अकरोत् । श्रुतिकीर्त्याः अपि बालद्वयम् आस्ताम् । एकः सुबाहुः, अन्यः शत्रुघाती इति । सुबाहुः मथुरायाः राजा अभवत् । शत्रुघातिः वैदिशनगरस्य राजा अभवत् । अन्ते भरतादयः त्रयः सहोदराः अपि श्रीरामचन्द्रेण सह सरयूनद्याः गोप्रतारघाट्टे जले निमग्नाः, मूलं परमं धाम अगच्छन् । माण्डवी ऊर्मिला श्रुतिकीर्तिः च अपि स्वस्य स्वस्य पत्या सह सरयूनद्यां पतित्वा पतिदेवानां लोकं प्राप्नुवन् ।