तद्वैरिणां यमसमागमहेतु राज्यं युष्माकमेव सुतरां प्रकटोपयोगम् । |
अपि च | विशदकोदण्डवेदविद्याविदग्धस्य वासुदेवद्वितीयात्मनो भवतः कटुतरतपःक्लेशसहनसाहसमपि नोचितं मन्ये ।
अर्जुनः-सखे सिद्धादेश ! गुरु॒नि॒दे॒शुव॒शंव॒द्वेरे॒ऽहं तपसि प्रष्टृत्तः ॥ मां पुनन्स्घ एव मुनिजनसमाचारः समुत्कण्ठयति । आकर्णयतु भवान्-
क्रूरारातिकृतावधिव्यतिकरश्यामावकाशे गते |
अपि च -
चेतः पराक्रममपं पटिमाऽऽयुघेपु प्रौढौ भुजौ भुजभृतामयमेव पन्थाः । |
सिद्धा०-~-( पुरोऽवलोक्य सहर्षम् ) महाभाग ! दिप्टया वर्द्धसे । फलितमेच तव तपः । पश्य पश्य--
भानोर्विभां रूक्षतमां मनोज्ञैः प्रत्यन्तरत्नैरवमानयन्ती । |
अर्जुनः-( सोपहासम् ) अ॒हो रभुसः प्रियवपस्यस्य। इत्थं किल समरमनोरथपूरणोन्मुखेपु प्रत्यर्थिरथेपु लोचनपथावतीर्णेपु परं परितुप्यते ।
सिद्धा०-~-उपहसतु महाभागः । अहं पुनर्जाने दुश्चरतपश्चरणमेदुरितपुण्यराशीनेव घृताचीरम्भातिलोत्तमोर्वशीप्रमुखसुराङ्गनाविमानान्युपसर्पन्ति ।
अर्जुनः--(सावज्ञं विहस्य ) किं मां लोभयति वयस्पः ? ।
मां वा रिपुं वा युधि दीर्घसुप्समेताः समेप्यन्ति यदा ग्रहीतुम् । |
( नेपय्ये )
लाअण्णलहरिपिहिदं अगें तणुअत्तणं वहन्तस्स । |
१ लावष्यलहरीपिहित्तमङ्गे तनुत्वं चद्दतः । |