सामग्री पर जाएँ

लज्जालुसस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लज्जालुसस्यम्
(Mimosa pudica) Flower-head
(Mimosa pudica)
Flower-head
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
उपकुलम् Mimosoideae
वंशः Mimosa
जातिः M. pudica
द्विपदनाम
Mimosa pudica
L.
Mimosa pudica

इदं लज्जालुसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारते सर्वत्र वर्धते । इदं लज्जालुसस्यं भूमौ प्रसारितम् इव वर्धते । सामान्यतया २ – ३ पादमितं दीर्घं भवति । अस्य पर्णानि मनुष्याणां स्पर्शेन पुटीकृतानि भवन्ति । इदं कण्टकयुक्तं सस्यम् अस्ति । अस्य पुष्पाणि श्वेतमिश्रितपाटलवर्णीयानि भवन्ति । जलांशः यत्र प्राप्यते तत्र सर्वत्र वर्धते इदं सस्यम् ।

इतरभाषाभिः अस्य लज्जालुसस्यस्य नामानि

[सम्पादयतु]

इदं लज्जालुसस्यम् आङ्ग्लभाषया Mimosa Pudica इति उच्यते । हिन्दीभाषया “लज्जालू” इति, तेलुगुभाषया “मुनुगुड मरमु” इति, तमिळभाभाषया “तोट्टलवाहि” इति, मलयाळभाषया “तोट्टमाम्” इति, मराठीभाषया “लाजरी” इति, कन्नडभाषया “मुट्टिदरे मुनि” अथवा “नाचिके मुळ्ळु” इति उच्यते ।

लज्जालुसस्यम् - शम्भुनाथ, नेपाल

आयुर्वेदस्य अनुसारम् अस्य लज्जालुसस्यस्य प्रयोजनानि

[सम्पादयतु]

अस्य लज्जालुसस्यस्य रसः तिक्तः कषायः च । इदं सस्यं शीतवीर्ययुक्तम्, लघु च ।

१. इदं कफं शमयति ।
२. इदं सस्यं नासिकातः रक्तस्रावे, अतिसारे, योनिरोगेषु च अधिकतया उपयुज्यते ।
३. मूत्राशये पाषाणाः जाताः सन्ति चेत् तेषाम् अपसारणार्थम् अपि अस्य उपयोगः क्रियते ।
४. शुनककासे (कन्नडभाषया “नायिकेम्मु” इति) अस्य मूलं मधुना सह सेवनीयम् ।
५. मूलव्याधौ, अण्डवृद्धौ च इदं सम्पेष्य लेपनीयम् ।
६. स्त्रीणां मासिकस्रावः अधिकः जातः चेत्, योनितः रक्तस्रावः जायते चेत् अस्य पर्णानां कषायः सेवनीयः । तेन कषायेन योनिप्रक्षालनम् अपि करणीयम् ।
७. मूलव्याधौ रक्तस्रावः जायते चेत् अस्य् स्वरसः सेवनीयः ।