भारतम्
भारतमाधिकारिकतया भारतगणराज्यं (Bhārata Ganarājyam) दक्षिण एशियायामेको देशोऽस्ति । क्षेत्रफलेन सप्तमो बृहत्तमो देशो विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तो देशश्चास्ति । दक्षिणे भारतीयो महासागरो दक्षिणपश्चिमदिशि सिन्धुसागरो दक्षिणपूर्वदिशि वङ्गोपसागरश्च सन्ति । पश्चिमदिशि पाकिस्थानदेशेन सह स्थलसीमाः सन्ति । उत्तरदिशि चीनो नेपालो भोटान्तश्च पूर्वदिशि वङगदेशो ब्रह्मदेशश्च सन्ति । भारतीये महासागरे भारतस्य समीपे श्रीलङ्का माहिलाद्वीपश्च स्तः । तस्य नारिकेलद्वीपाः श्यामब्रह्मेण्डोनेश्यादेशानां समुद्रीयसीमाम् अङ्गीकुर्वन्ति।
भारतम्, आधिकारिकरूपेण भारतमहाराज्यम्, दक्षिणजम्बुद्वीपे स्थितं महाराज्यं वर्तते । जनसङ्ख्यादृष्ट्या एषः देशः विश्वे प्रथमः स्थाने विद्यते । विश्वे प्रसिद्धो जनतन्त्रयुतः देशः एषः ।
एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदया प्रसिद्धः अस्ति । हिन्दुधर्मः,बौद्धधर्मः,जैनधर्मः, सिखधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तमतम्, इस्लाम च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्टीण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।
भारतस्य अर्थव्यवस्था विश्वे पञ्चमे स्थाने प्राप्नोति । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य । सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । भारतीयसंसदे सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्नः उद्गमं प्रति विविधाः पारम्पर्यकथाः प्रचलिताः वर्तन्ते । ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च ॥
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
जय श्री राम ।
इतिहासः
[सम्पादयतु]प्राचीनतं भारतम्
[सम्पादयतु]भारतस्य इतिहासः आधुनिकमानवस्य (होमो-सेपियन्स्) पुरातत्त्वावशेषकालतः प्रायः ३४००० वर्षेभ्यः आरब्धः । भारतस्य इतिहासे सम्पूर्णभरतखण्डस्य तन्नाम इदानीन्तनभारतस्य पाकिस्तानस्य, बाङ्ग्लादेशस्य, श्रीलङ्कादेशस्य, नेपालदेशस्य, भूतानदेशस्य च इतिहासः अन्तर्भूतः । ५०००वर्षेभ्यः पूर्वतनी सिन्धुसंस्कृत्याः सभ्यथा जगति एव अत्यन्तं पुरातनसंस्कृतिः ।
ख्रिस्तपूर्व २०००-५०० अवधौ,वेदाः लिखितस्वरूपे अवलब्धाः। एतद् कालखंड "वैदिक युग" नाम्ना जाता ।
ख्रिस्तपूर्व ५०० अवधौ,१६ महाजनपदाः उभयताः ।
भौगोलिकता
[सम्पादयतु]भौगोलिकविस्तीर्णे भारतं विश्वे सप्तमे स्थाने विद्यते । अस्य सीमा पश्चिमे पाकिस्थानेन, ईशान्ये चीन-नेपाल-भूटानदेशैः परिवृता, ब्रह्मा (म्यान्मार्) बाङ्गला देशौ पूर्वदिशायां स्तः । श्रीलङ्का, मालाद्वीपः च हिन्दुमहासागरे भारतस्य समीपवर्तिनौ ।
परितः विद्यमानाः देशाः
[सम्पादयतु]हिमालयात् उत्तरभागे चीनादेशः वर्तते । हिमालयस्य सानुप्रदेशे नेपाल-भूतानराज्यानि सन्ति । भारतस्य पूर्वभागे बाङ्ग्लादेशः बर्मादेशः, बङ्गलोपसागरे स्थितः अण्डमान् -निकोबार द्वीपसमुदायः, पश्चिमसागरे स्थितः लक्षद्वीपश्च भारतस्यैव प्रदेशः । भारतस्य वायव्यभागे पाकिस्थानदेशः अस्ति । हिमालयपर्वतश्रेण्यां तिस्त्रः पङ्क्तयः समानान्तरे सन्ति । तन्मध्ये काश्मीर-कुलुप्रभृतयः दर्यः । एताः विशालाः पुष्पफलसमृद्धाश्च । भारत बर्मादेशयोः भारत-बाङ्गलादेशयोः मध्येऽपि पर्वतपङ्क्तयः शोभन्ते । एताः हिमालयाः इव नोन्नताः । सिन्धु गङ्गानद्योः परिसरे विशालाः सन्ति । भारतस्य मध्ये आरावली -विन्ध्य -सात्पुरप्रमुखाः पर्वतश्रेण्यः सन्ति ।
राजनीतिः
[सम्पादयतु]अर्थव्यवस्था
[सम्पादयतु]मुद्रास्थानांतरमानस्य भारतीयार्थव्यवस्था विश्वे षष्ठमे स्थाने एवं क्रयशक्त्यनुसारं तृतीये स्थाने अस्ति | भारतीयार्थव्यवस्था कृषिप्रधाना वर्तते।
सर्वकारः
[सम्पादयतु]भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत् । अस्तीदं २९ राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली (भारतस्य राजधानी) इत्यत्र अस्ति।
सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति।[१] संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते।
नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।
ध्वजः | त्रिवर्णः |
चिह्नम् | अशोकस्य चतुर्मुखसिंहस्तम्भः |
ध्येयवाक्यम् | सत्यमेव जयते |
गीतम् | जन गण मन |
गानम् | वन्दे मातरम् |
भाषा | द्वाविंशतिः भाषायाः |
कविः | रवीन्द्रनाथ ठाकुर |
वाद्ययन्त्रम् | वीणा |
मुद्रा | भारतीयरूप्यकम् |
दिनदर्शिका | शक |
क्रीडा | यष्टिकन्दुकक्रीडा |
पुष्पम् | कमलम् |
फलम् | आम्रम् |
वृक्षः | वटवृक्षः |
पक्षी | मयूरः |
पशुः | व्याघ्रः |
सरीसृपः | काळिङ्गसर्पः |
जलचरः | गङ्गानद्याः डोल्फिन |
नदी | गङ्गा |
- भारतीय-सूची
- भारत-जन-सूची
- सनातनधर्म:
- वास्तु
- योगः
- वेदान्त:
- हिन्दु-मन्दिरम्
- धर्म-संशोधनम्
- भारतस्य प्रधानमन्त्रिणः
- भारतस्य राष्ट्रपतयः
- भारतस्य नद्यः
- भारतीयक्रीडा
- भारतस्य सूर्यमन्दिराणि
- भारतस्य मण्डलानि
स्वातन्त्र्यम्, महाराज्यत्वम्
[सम्पादयतु]सप्तचत्वारिशदधिकनवदशशततमे(१९४७) क्रिस्ताब्दे आगस्ट्मासे पञ्चदशदिनाङ्के आङ्गल्शासनात् मुक्तं भारतं स्वातन्त्र्यम् अलभत ।
जवाहरलालनेहरुम्हाभागः स्वतन्त्रभारतस्य प्रथमः प्रधानमन्त्री अभवत् ।
संविधानरीत्या पञ्चाशदधिकनवदशशत (१९५०) तमे क्रिस्ताब्दे जनवरिमासे षड्विंशतितमे दिनाङ्के भारतं सार्वभौममहाराज्यत्वेन उद्घोषितम् । राजेन्द्रप्रसादमहोदयः अस्य महाराज्यस्य प्रथमः अध्यक्षः आसीत् । तदा भाषाणाम् आधारेण राज्यानां पुनर्विभागः कृतः ।
संविधानम्
[सम्पादयतु]भारतदेशः प्रजाप्रभुत्वात्मकः । अत्र शासनार्थ संविधानं रचितम् । जगतः सर्वेभ्यः संविधानेभ्यः भारतसंविधानं बृहद्गात्रकम् । संविधानमेव देशस्य वरिष्ठं शासनम् । संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति । एतदर्थं केन्द्रे लोकसभा, राज्यसभा च राज्येषु विधानसभा विधानपरिषच्च वर्तन्ते । राष्ट्रस्य शासनाधिकारः राष्ट्रपतौ न्यस्तः । भारतदेशस्य राजधानी देहलीनगरम् । भारतस्य राष्ट्रध्वजः त्रिवर्णाङ्कितः तत्रोर्ध्वं केसरवर्णः, मध्ये श्वेतः, अधश्च हरितः । श्वेतवर्णभागे नीलम् अशोकचक्रं राजते । सिंहशीर्षमुद्रा राष्ट्र्चिह्नम् । तत्र 'सत्यमेव जयते’ इति ध्येयवाक्यम् उत्कीर्णम् । 'जनगणमन’इति गीतं राष्ट्रगीतम् । राष्ट्रप्राणी व्याघ्रः । राष्ट्रपक्षी च मयूरः ।
नद्यः क्षेत्राणि प्रमुखजनाश्च
[सम्पादयतु]भारते गङगा, यमुना, सिन्धू, नर्मदा, गोदावरी,कपिला, गजकर्णिका, ब्रह्मपुत्रा, कावेरी इत्यादयः नद्यः प्रवहन्ति । एताः सर्वाः अपि नद्यः जलेन भूमिं सिञ्चन्ति । अतः सुजला, सुफला, सस्यश्यामला च भारतभूमिः । एतस्मिन् देशे दिलीपः, दशरथः, युधिष्ठिरः इत्यादयः धर्मपरिपालकाः पौराणिकाः राजानः आसन् । अशोकादयः प्रजाहितचिन्तकाः राजानः च अभवन् । एतेषां कीर्तिः अद्यापि जगति समुल्लसति ।
अस्मिन् देशे ऋषयः मुनयश्च आसन् । ऋषयः मन्त्रद्रष्टारः । ते परमज्ञानं प्राप्तवन्तः । वेदेषु तत् ज्ञानं निबद्धम् । अतः अस्माकं देशः वेदभूमिः इति विख्यातः । वाल्मीकिव्यासादयश्च मुनयः इतिहासपुराणादीन् ग्रन्थान् रचितवन्तः ।
भारतं पुण्यभूमिः । अत्र राम-कृष्णादयः अवतारपुरुषाः, शङ्कर-रामानुज-बसवेश्वर-मध्वादयः धर्मोपदेशकाः आचार्याः समभवन् । बुद्ध-महावीरादयः अत्रैव अहिंसातत्त्वम् उपादिशन् । राष्ट्रपिता महात्मागान्धी अहिंसामार्गेणैव स्वातन्त्र्यं प्रापयत । भारते अनेकानि पुण्यक्षेत्राणि विद्यन्ते । तेषु काशी-गोकर्णम्-उडुपि-तिरुपति -श्रृङ्गेरी प्रभृतीनि च प्रसिद्धानि ।
राष्ट्रगीतम्
[सम्पादयतु]१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण । १९१९तमे वर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् । मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके । १९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवाहरलाल नेह्रू यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
शताब्दोत्सवः
[सम्पादयतु]१९११तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं 'तत्त्वबोधप्रकाशिका 'नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
१९१९तमे वर्षे कविः एषः बेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः 'जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तानन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । 'रवीन्द्रनाथठागोरमहोदयः बहुगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
१९४८तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवहरलालनेहरु यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
भारतं मतनिरपेक्षं राष्ट्रम् । अत्र अनेकानि मतानि, अनेकाश्च भाषाः सन्ति । मतभेदेन आचारभेदश्च वर्तते । तथापि वयं सर्वे भारतीयाः । अतः सौहार्देन वसामः । भारतम् अनेकभाषाणां देशः । अष्टशताधिकाः भाषाः अत्र सन्ति । तत्र संस्कृतभाषा प्राचीनतमा । सा बहुभाषाणां जननी, कासाञ्चन भाषाणां पोषयित्री च अस्ति । संस्कृतवाङ्मये विविधानिं शास्त्राणि, रम्याणि काव्यानि अपूर्वाश्च विज्ञानविषयाः सन्ति । गौतमः, जैमिनिः, पाणिनिः इत्यादयः संस्कृतकवयः प्रसिद्धाः । विज्ञानेऽपि कणादः चरकः वराहमिहिरः, आर्यभटः इत्या प्रख्याताः । पुण्यतमा, सर्वसम्पत्समृद्धा भारतभूमिः अस्माकं जन्मभूमिः । जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इत्यतः सा वन्दनीया । जयतात् भारतमाता।
भारतम् एशियामहाद्वीपे दक्षिणे एकः स्वतन्त्रः समाजवादी पन्थनिरपेक्षः लोकतन्त्रगणतन्त्रदेशः अस्ति । एतद् विश्वस्य विशालं लोकतन्त्रम् । अस्य जनसङ्ख्या १२० कोटिमिता, भाषाः शताधिकाः । भारतवर्षस्य उत्तरदिशि पर्वतराजः हिमालयः अस्ति, दक्षिणे हिन्दुमहासागरः अस्ति । भारतस्य उत्तरे नेपाल चीनः (तिब्बत्) च देशा: सन्ति । पश्चिमे पाकिस्थानम् अफगानिस्थानं देशौ स्तः । पूर्वे ब्रह्मादेशः (म्यान्मार्), दक्षिणे श्रीलङ्का मालाद्वीपः देशौ सन्ति । कुष्णद्वीप-निकोबारद्वीपयोः निकटे इण्डोनेशिया थाईलेण्ड् च देशौ स्तः ।
भारतस्य राजधानी नवदेहली अस्ति । अन्यमुख्यनगराणि मुम्बई, कोलकाता, बेङ्गलुरु, चेन्नै, पुणे च सन्ति । भारते अष्टाविंशतिः राज्यानि सन्ति ।
भारतीयसंस्कृतिः
[सम्पादयतु]पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् ।भारतं धार्मिकविविधतायाः कारणेन उल्लेखनीयम् अस्ति, हिन्दुधर्मः, बौद्धधर्मः, सिखधर्मः, इस्लामधर्मः, ईसाईधर्मः, जैनधर्मः च राष्ट्रस्य प्रमुखधर्मेषु अन्यतमाः सन्ति । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् । बौद्धधर्मस्य उन्नतिः-अवनतिः च, भारतस्य सुवर्णयुगं, यवनानाम् आक्रमणं, यवनानां शासनं, अन्यदेशीयानां शासनम् इत्येतेषु कालेषु भारतीयसंस्कृतेः विस्तारः, विविधता च अधिका अभवत् । भारतस्य धार्मिकाणि आचरणानि, भाषाः, पद्धतयः, सम्प्रदायाः च गतेभ्यः ५०००वर्षेभ्यः अस्याः अनन्यसंस्कृतेः साक्षिरूपेण सन्ति । विभिन्नानां धर्माणां, सम्प्रदायानां संयोजनम् अपि जातम् अस्ति भारतीयसंस्कृतौ । एतस्याः संस्कृतेः प्रभावः जगतः अन्यासां संस्कृतीनाम् उपरि अपि जातः अस्ति महता प्रमाणेन । भारतीये संविधाने 22 भाषाः अनुसूचिताः सन्ति।
राज्यानि केन्द्रशासितप्रदेशाः च
[सम्पादयतु]भारते २८ राज्यानि ८ केन्द्रशासिताप्रदेशा: च सन्ति । अस्मिन् देशे विविधमतानुयायिनः परस्परं सौहार्देन जीवन्ति ।
स॰ | प्रदेशः | राजधानी | भाषाः |
---|---|---|---|
१ | लदाख | कार्गिल्, लेह | लदाखी, हिन्दी |
२ | जम्मूकाश्मीरम् | जम्मू, श्रीनगरम् | काश्मीरी, डोगरी |
३ | चण्डीगढ | चण्डीगढ | पञ्जाबी, हिन्दी |
४ | देहली | नवदेहली | हिन्दी |
५ | दादरा नगरहवेली च दीव दमण च | दमण | गुजराती, मराठी, हिन्दी |
६ | लक्षद्वीपाः | कवरत्ती | मलयाळम् |
७ | पुदुच्चेरी | पुदुच्चेरी | तमिळ्, तेलुगु, मलयाळम् |
८ | अण्डमाननिकोबारद्वीपसमूहः | पोर्ट् ब्लेयर् | बाङ्गला, हिन्दी |
राष्ट्रियम्
[सम्पादयतु]भारतस्य राष्ट्रियगीतम् जन गण मन गुरुदेव रवीन्द्रनाथ ठाकुरवर्येण लिखितम् । भारतस्य राष्ट्रियं गीतं वन्दे मातरम् बङ्किमचंद्र- चटर्जीवर्येन लिखितम् |
चित्रशाला
[सम्पादयतु]-
गङ्गानदी
आधारग्रन्था:
[सम्पादयतु]- भारतम्
- भारतसमाचार ग्रन्थि: Archived २००५-११-२७ at the Wayback Machine
- राष्ट्रिय ग़ीत