पणजी
पणजीम्महानगरम् पणजी/ पणजे/ पोणजी Panaji | |
---|---|
'land that never floods' | |
पणजीमहानगरम् | |
देशः | भारतम् |
राज्यम् | गोवाराज्यम् |
मण्डलम् | उत्तरगोवामण्डलम् |
महानगरविस्तारः | ३६ चतुरस्रकि.मी. |
जनसङ्ख्या(२०११) | १,१४,४०५ |
Founded by | कदम्बवंशीयः सत्यदेवनामकः राजा |
Government | |
• Type | महापौरपरिषद्-सर्वकारः(Mayor–council government) |
• Body | पणजी म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | सुरेन्द्र फुर्टाडो |
• उपमहापौरः | बेण्टो लोरेना |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
पीनकोड |
४०३ ०XX |
Area code(s) | ०८३२ |
Vehicle registration | जीए-०७ |
साक्षरता | ८५.००% |
भाषाः | कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | www.ccpgoa.com |
पणजी ( शृणु) /ˈpənəɡiː/) (हिन्दी: पणजी, आङ्ग्ल: Panaji)नगरं गोवाराज्यस्य उत्तरगोवामण्डलस्य केन्द्रमस्ति । एतत् नगरं माण्डवीनद्याः तीरे विकसितमस्ति । गोवाराज्यस्य तृतीयं बृहत्तममेतन्नगरम् गोवाराज्यस्य राजधानी अस्ति ।
इतिहासः
[सम्पादयतु]पणजी-नगरस्य इतिहासः बहु पुरातनः अस्ति । कदम्बवंशीयः सत्यदेवनामकः राजा (१००७-१०५०) अस्य नगरस्य निर्माणं कारयित्वा अस्य पहजनीखली इति नामकरणं कृतवान् । कोङ्कणी-पुर्तगालीभाषयोः भिन्नोच्चारणत्वात् नगरस्यास्य पोन्नजी, पोङ्गीम इत्येते नामान्तरे स्तः । पणजी इति नाम तु संस्कृतापभ्रंशशब्दः । पहजनी, खली इत्येताभ्यां संस्कृतशब्दाभ्यां व्यत्पुनः पञ्जखली इति मूलशब्दः कदम्बवंशीयस्य त्रिभुवनमल्ल इत्यस्य राज्ञः शासनकाले लिखितताम्रपत्रेषु उल्लिखितः अस्ति । तयोः शब्दयोः अर्थः पहजनी = नौ (Ship), खली = कुल्या (creek) च भवति । पुर्तगालीजनाः गोवाराज्यं यदा स्वाधीनं कृतवन्तः, तदा १८४३ तमस्य वर्षस्य ‘मार्च्’-मासस्य द्वाविंशतितमे (२२) दिनाङ्के नामपरिवर्तने सति अस्य नाम ‘नोवा गोवा’ इति अभूत् । १९६१ तमे वर्षे महाराष्ट्रात् भिन्ने सति अस्य नगरस्य नाम पणजी इति जातम् ।
वीक्षणीयस्थलानि
[सम्पादयतु]- कला ‘एकेडमी’:- कलाक्षेत्रे अभूतपर्वप्रसिद्धिं प्राप्तवतः ‘दीनानाथ मङ्गेशकर’ इत्यस्य कलाविदः नाम्ना स्थापितं सभागृहम् (Auditorium) अस्ति । तत् सभागृहं ‘बेण्डोगकर’ मार्गे स्थितमस्ति । तस्मिन् सभागृहे अनावृत्तं चलच्चित्रगृहं (Open air Theater), लघुचलचित्रगृहं, गीतमुद्रिकाकक्षः (Recording room), सङ्गीतालयः च अस्ति । ‘फेब्रुआरी’-मासे अत्र POP, BEAT, JAZZ इत्येषां सङ्गीतानाम् उत्सवो भवति । तस्मिन् समये बहवः सङ्गीतरसिकाः तत्र गच्छन्ति ।
- केसिनो रोयाल् (Casino Royal):- गोवाराज्यस्य बृहत्तमं द्यूतक्रीडाभवनमस्ति एतत् । अत्र धनं जेतुम् ईप्सायां सति भिन्नक्रीडाः क्रीडन्ति जनाः । यथा – Slots, Poker च । अत्र विशालभोजनकक्षः अस्ति ।
- मीरामर-समुद्रतटः:- माण्डवीनदी-अरबीसमुद्रयोः सङ्गमे स्थितः एषः समुद्रतटः प्रख्यातः अस्ति । मीरामर इति पुर्तगालीशब्दस्यार्थोऽस्ति समुद्रदृश्यम् इति ।
- दोना पौला:- तत्र अरबी-समुद्रस्य, दोना-पौला-नद्योः च सङ्गमः भवति । तत्र सायंकाले सूर्यास्तस्य दर्शनाय जनाः गच्छन्ति ।
मार्गाः
[सम्पादयतु]विमानमार्गः
[सम्पादयतु]वास्को द गामा इत्यस्मिन् नगरे स्थितं 'डाबोलिम'-विमानस्थानकम् पणजी-तः त्रयोविंशतिः (२३) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गोवाराज्याय वायुयानानि सन्ति ।
धूमशकटमार्गः
[सम्पादयतु]भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।
भूमार्गः
[सम्पादयतु]भारतस्य, गोवाराज्यस्य च अन्यभागेभ्यः पणजी-नगराय 'बस्'यानानि अपि सन्ति । मुख्यतः मडगांव-मुम्बई-वास्को द गामा -आदिनगरेभ्यः 'बस्'यानानि सन्ति ।
बाह्यानुबन्धः
[सम्पादयतु]http://www.ccpgoa.com/ www.ccpgoa.com