धाराशिव जनपद
धाराशिव जनपद धाराशिव जिल्हा उस्मानाबाद् जनपद | |
---|---|
जनपद | |
धाराशिव जनपद | |
नळदुर्गतः दृश्यम् | |
महाराष्ट्रराज्ये धाराशिव जनपद | |
Coordinates (धाराशिव): निर्देशाङ्कः : १७°२१′उत्तरदिक् ७५°१०′पूर्वदिक् / 17.35°उत्तरदिक् 75.16°पूर्वदिक्-१८°२४′उत्तरदिक् ७६°२४′पूर्वदिक् / 18.40°उत्तरदिक् 76.40°पूर्वदिक् | |
देशः | भारतम् |
राज्यम् | महाराष्ट्रम् |
विभागः | मराठवाडा |
मुख्यालयः | धाराशिव |
उपमण्डलानि | धाराशिवम् (उस्मानाबाद्), तुळजापुरम्, उमरगा, लोहारा, कळम्ब, भूम, वाशी, पराण्डा |
Government | |
• Body | उस्मानाबाद्-मण्डलपरिषद् |
• जनपदाधिकारी | श्री कौस्तुभ दिवेगावकरः |
Area | |
• Total | ७,५६९ km२ |
Population (२०११) | |
• Total | १६,५७,५७६ |
• Density | २२०/km२ |
जनसङ्ख्याशास्त्रम् | |
• साक्षरता | ७६.३३% |
• लिङ्गानुपातः | ९२० |
Time zone | UTC+५:३० (भा॰मा॰स॰) |
Website | धाराशिव जनपद |
धाराशिव जनपद (मराठी: धाराशिव जिल्हा, आङ्ग्ल: Dharashiv District), पुरातनं नाम उस्मानाबाद्-जनपद, महाराष्ट्रराज्ये स्थितं मण्डलम्। अस्य मण्डलस्य केन्द्रं धाराशिव इत्येतन्नगरम्। तुळजापुर इति तीर्थस्थानार्थं प्रसिद्धमिदं मण्डलम्।
भौगोलिकम्
[सम्पादयतु]धाराशिवमण्डलस्य विस्तारः ७,५१२ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि लातूरमण्डलं, पश्चिमदिशि सोलापुरमण्डलम्, उत्तरदिशि बीडमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले ६०० मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले माञ्जरा, तेरणा, बोरी, बाणगङ्गा, मन्याड, तावरजा, सीना इत्येताः नद्यः सन्ति ।
कृष्युत्पादनम्
[सम्पादयतु]अस्य मण्डलस्य ८०.१३% जनसङ्ख्या कृषिकार्ये रता दृश्यते । यवनालः(ज्वारी), कार्पासः, इक्षुः, कलायः, गोधूमः, तूर, माषः, चणकः 'अळशी' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।
जनसङ्ख्या
[सम्पादयतु]धाराशिवमण्डलस्य जनसङ्ख्या(२०११) १६,६०,३११ अस्ति । अस्मिन् ८,६१,५३५ पुरुषाः ७,९६,०४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७६.३३% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-
- धाराशिवम् (उस्मानाबाद्)
- तुळजापुरम्
- उमरगा
- लोहारा
- कळम्ब
- भूम
- वाशी
- पराण्डा
लोकजीवनम्
[सम्पादयतु]मण्डलेऽस्मिन् बहवः जनाः कृष्यवलम्बिनः सन्ति । मण्डलेऽस्मिन् मराठी, कन्नड, ऊर्दू च इत्यादयाः भाषाः आधिक्येन व्यवहाररूढाः । मण्डलेऽस्मिन् सुविधा-अभावात् उद्यमानां विकासः न जातः । अतः जनानां जीवनपद्धतिः ग्रामीणा दृश्यते । अत्रस्थाः केचन जनाः उपजीविकारूपेण पर्यटनव्यवसायम् आचरन्ति यतो हि मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति पर्यटनस्थानेषु तुळजापुर इति अन्यतमम् ।
वीक्षणीयस्थलानि
[सम्पादयतु]मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । यथा -
१ तुळजाभवानी-मन्दिरम्
२ सन्त गोरोबा-मन्दिरम्
३ धाराशिव-लयनानि
४ नळदुर्गः
५ परान्दा-दुर्गः
६ कुन्थलगिरी-जैनमन्दिरम्
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Osmanabad Online
- Osmanabad Police Archived २०१६-०३-०३ at the Wayback Machine
- Osmanabad NIC
- Information of Tuljabhavani temple Archived २०१५-०४-०२ at the Wayback Machine
बीडमण्डलम् | ||||
सोलापुरमण्डलम् | लातूरमण्डलम् | |||
धाराशिवमण्डलम् | ||||
कर्णाटकराज्यम् |