कर्णाटकस्य पर्वताः
पीठिका
[सम्पादयतु]अस्माकं भूगोलस्य अधिकभागः जलेन आवृतः सन्ति । अवशिष्टभूभागेषु अपि पर्वताः कन्दराः नद्यः शाद्वलाः अरण्यानि सानुप्रदेशाः निम्नपीनप्रदेशाः मरुत्स्थलानि कृषिक्षेत्राणि ग्रामाः पत्तनानि नगराणि च भवन्ति । एतेषु बहुजनाकर्षः आह्लादजनकः प्रकृतिरम्यः च प्रदेशः गिरिशिखराणि भवन्ति । निसर्गरमणीयस्य कर्णाटकस्य ग्रामीणप्रदेशाः पर्वतैः शिखरैः च मनोहराः ग्रामजीवनपूरकाः च सन्ति । भरतखण्डस्य जम्बूद्वीपे विद्यमाना काचित् विशिष्टा पर्वतश्रेणी एव पश्चिमाद्रिः। अस्य सह्याद्रिः इति नाम अस्ति । दक्षिणपीठभूमेः पश्चिमभागे प्रसृतः अयं पर्वतः सिन्धुसागरतीरप्रदेशं पृथक् करोति । महाराष्ट्रगुजरातोः सीमाप्रदेशस्य तापीनद्याः दक्षिणतटतः आरब्धा इयं पर्वतश्रेणी दक्षिणसीमान्त्यस्य कन्याकुमारीपर्यन्तं विस्तृता अस्ति । अस्य दीर्घता सामन्यतः १६००कि.मी. अस्य विस्तारः ६००० च.की.मी. च स्तः । महाराष्ट्र गोवा कर्णाटकम् केरळम् तमिळुनाडु राज्येषु एषा पर्वतशृङ्खला अस्ति । पूर्णपर्वतश्रेण्याः अर्धात् अधिकः भागः कर्णाटकराज्ये अस्ति । पश्चिमपर्वतश्रेणितः उद्गतैः नदिभिः भारतस्य ४०%जलानयनप्रदेशाः आवृताः इति विशेषः । अस्याः पर्वतशृङ्खलायाः सामान्यम् औन्नत्यं १२००मी. अस्ति । अयं प्रदेशः प्रपञ्चस्य अतिविशिष्टजीववैविध्यस्य आश्रयस्थानम् अस्ति । ५००० अधिकाः वृक्षवंशाः १३९अधिकाः सस्तनिवंशाः ५०८ अधिकाः पक्षिजातयः, १७९अधिकाः उभयवासिवंशाः अत्र सन्ति । विश्वे विनाशताम् आपन्नाः ३२५वंशीयाः जीविनः अत्र पश्चिमपर्वतश्रेणिषु वसन्ति ।
पर्वतानां भूरचना
[सम्पादयतु]पश्चिमपर्वताः वस्तुतः पर्वतश्रेण्यः नैव । दक्षिणपीठभूमेः अञ्चलः अधः सिन्धुसागस्य वेलाभूः अस्तीति कारणेन पश्चिमाद्रिश्रेणी दृश्यते । प्रायः १५०वर्षेभ्यः पूर्वं सञ्जाते गोण्ड्वानामहाभूखण्डस्य महास्फोटात् पश्चिमपर्वताः उद्भूताः इति विश्वासः अस्ति । अस्यां पर्वतश्रेण्यां दृश्यमाना सामान्यशिलायाः बसाल्ट् इति नाम । प्रस्तरस्तरः भूमौ ३कि.मी. अगाधित्वम् आपन्नः । ग्रानैट्, कोण्डालैट्, लेप्पिनैट्, चार्नोकैट् इत्यदयः अन्याः शिलाः अपि अत्र दृश्यन्ते । भारतस्य दक्षिणभागे विद्यमाने कर्णाटकराज्ये अपि मरुत्स्थलं विहाय अन्य भूप्रदेशाः सन्ति एव । तेषु केषाञ्चन पर्वतप्रदेशानां परिचयः अत्र विधीयते ।