सामग्री पर जाएँ

अलङ्कारशास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अलङ्कारशास्त्रं क्रियाकल्पः, काव्यलक्षणं, काव्यशास्त्रं, सौन्दर्यशास्त्रम् इत्यपि प्रसिद्धम् अस्ति। 'उपकारकत्वादलङ्कारः सप्तममङ्गम्' मन्यते। 'पञ्चमी साहित्यविद्या' इति यायावरीयाः। परिकल्पना अस्ति यत्, यच्छिक्षा-कल्प-व्याकरण-निरुक्त-च्छन्दो-ज्योतिषां वेदोपस्कारकत्वातदङ्गत्वं यथा सिध्यति, तथैव अलङ्कारशास्त्रस्य अपि वेदोपकारकत्वात्सप्तमं वेदाङ्गत्वं सिध्यतीति । एवमेव आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति चतस्रो विद्याः प्रसिद्धाः साहित्यविद्या च पञ्चमी । तेन वेदस्य सप्तमाङ्गत्वाद्विद्यासु पञ्चमावयवत्वाच्च अलङ्कारशाखस्य उपादेयत्वं मन्यते। ननु भाषिकशुद्धतोच्चारणादिसंरक्षणेन शिक्षासाहित्यं, वेदोक्तकर्मादिव्याख्यानेन कल्पसाहित्य, शब्दसाधुत्वविवेकेन व्याकरणं, शब्दार्थबोधनेन निरुक्तसाहित्यं, मन्त्राणां छन्दोविधानेन छन्दःसाहित्यं, यज्ञसम्पादननिमित्तकविशिष्टकालादिबोधनेन ज्यौतिषञ्च वेदस्योपकारि इति तेषां वेदाङ्गत्वं, किन्तु प्रकृतम् अलङ्कारशास्त्रं तु केनाऽपि अनुपायेन वेदानुपस्कारकत्वादपि तस्य वेदाङ्गत्वमिति किमपि कारणं मन्यते । सत्यमेव एतद् अलङ्कारशास्त्रं काव्यस्वरूपविवेचकत्वात् लौकिकसाहित्यसम्बद्धं किन्तु तत्प्रयोजनीभूतस्य काव्यसाहित्यस्य तु प्रियासम्मततया प्रवृत्तिनिवृत्युपदेशद्वारेण भावशोधनपूर्वकं सुकुमारमतीनामपि प्रतिभाविशदीकरणेन वेदशास्त्रादौ सम्मुखीकरणाद्वेदाङ्गत्वं मन्यते।

वेदप्रवेशाय मार्गः

[सम्पादयतु]

अत्रेत्थमुक्तं भवति वेदशास्त्रं हि प्रभुसम्मिताज्ञादेशपरम् । तस्य ‘अहरहः सन्ध्यामुपासीत' इतिप्रभृत्याज्ञादेशकत्वान्न तत्र सुकुमारमतीनां प्रवेशः सरलः। काव्यन्तु कान्तासम्मिततया रामादिवत्प्रवर्तितव्यं न तु रावणादिवद् इत्युदाहरणमुखेन प्रवृत्तिनिवृत्युपदेशकत्वाद्धृद्यं सुकुमारमतीनामपि सरलतया प्रवेश्यम् । तथा प्रवेशेन काव्यादौ तेषां प्रवृत्तिमार्गान्तरीकरणेन भावशोधनद्वारा बुद्धिवैशद्यपुरःसरं वेदादावपि प्रवेशः सम्भवः । तर्हि काव्यं नाम सुकुमारमतीनामेव विषय इति नास्ति यतः इदं प्रौढमतीनामपि ग्राह्यं भवति। कटुकौषधिशमनीयरोगस्य शर्कराशमनीयत्वं सर्वेषामेव कृते साधीयो भवति । काव्यादपि तदेव सिध्यति यद्वेदशास्त्राद्भवति अर्थात् सुखादल्पधियामपि चतुर्वर्गफलप्राप्तिः काव्याद्भवति। तर्हि दुष्करसम्मतवेदशास्त्रादौ किमर्थं प्रवेशः सर्वं काव्यादेव सिध्येदिति न मन्यते । वेदशास्त्रं हि सर्वशास्त्रमूलं काव्यन्तु तस्यैकस्य अङ्गस्यानुवादमात्रम् । तेन समग्रज्ञानसिद्धये वेदशास्त्रमध्येतव्यमेव । काव्यं तु तत्र प्रवेशमार्गं सरलीकरोति लक्ष्यन्तु वेदशास्त्रमेवेति ।

मनुष्यः स्वभावादेव स्वार्थप्रकृतिकः । दुष्प्रवृत्तिस्तस्य सहजाता। इदन्तु काव्यमेव यत् तथाविधदुष्प्रवृत्तीः संशोध्य सद्भावानामुदयं कारयति । एतादृशप्रवृत्तिमार्गान्तरीकरणे सति प्रवृत्तिरसतो, निवृत्तिश्च सर्वेषामेव काव्यात्सुखादेव भवतीति काव्यस्योपादेयत्वं तस्य वेदोपस्कारकत्वञ्च मन्यते।

एवं च काव्यविद्यायाः विद्यायाः पञ्चमाङ्गत्वमपि । आन्वीक्षिकी हि सर्वविद्यानां प्रदीपस्तर्कशक्तिविकासेन सदसद्विवेचनशक्तिप्रदायिनी। अतस्तस्याः विद्यात्वम् । त्रयो हि आर्यमर्यादाव्यवस्थापिका । तेन तस्या अपि विद्यात्वम् । वार्ता हि वृत्तिशिक्षिका । तेन तस्या अपि विद्यात्वम् । दण्डनीतिश्च सर्वेषां प्रतिपालिका । तेन तस्या अपि विद्यात्वं मन्यते । साहित्यविद्या अपि तदनुकूलप्रवृत्तिविधायिका तत्प्रतिकूलाचरणनिवृत्युपदेशेन तदनुदूलाचरणोपदेशेन सरसतया । अतस्तस्याः अपि विद्यात्वं मन्यते।

अतो सप्तवेदाङ्गानि शिक्षा-कल्प-व्याकरण-निरुक्त-छन्दो-ज्यौतिष-अलङ्कारशास्त्राणि । पञ्च विद्याः आन्वीक्षिकी-त्रयी-वार्ता-दण्डनीति-साहित्यविद्याभेदादिति पर्यवसितम् । नीतिशास्त्रे काव्यशास्त्रस्य अन्तर्भावः न मन्यते । दण्डनीतिः हि दुष्प्रवृत्तिनिरोधेन सत्प्रवृत्तिप्रवर्तकेति सत्यमेव । एवञ्च साहित्यविद्याऽपि । किन्तु तयोः एतावदेवान्तरं यत्पूर्वा दण्डद्वारैव सर्वं साधयति द्वितीया तु तल्लाभालाभनिदर्शनमुखेन सरसतया । अपरञ्च प्रथमा दुष्प्रवृत्तिर्बाध्यत एव निरोद्धुं प्रभवति, द्वितीया तु तन्मार्गान्तरीकरणेन भावशोधनद्वारा मूलत एव निरुणद्धि । इति तयोर्महदन्तरं मन्यते।

अलङ्कारशास्त्रस्य वेदस्य सप्तमाङ्गत्वं पञ्चमविद्यात्वञ्च प्रसिद्धम् अस्ति। किं नाम तथाविधमपरिहार्यरूपेण विवेचनीयम् अलङ्कारशास्त्रमित्यपेक्षायामुक्तमस्ति - अलङ्कृतिरलङ्कारः, सौन्दर्यमलङ्कारः । स च गुणादानदोषहानात्सम्पद्यते । तेनैतत्पर्यवस्यति यद्वाचां सौन्दर्याधायकतत्त्वग्रहणं तन्निरोधकतत्त्वापासनमेवालङ्कारस्तस्य शास्त्रं विवेचकविद्येति अलङ्कारशास्त्रम् । इदमेव साहित्यशास्त्रं-सौन्दर्यशास्त्रम्, काव्यलक्षणसाहित्यं, काव्यशास्त्रमपि व्यपदिश्यते । काव्यसाहित्यस्य स्वरूपावधारकत्वादिदं काव्यलक्षणसाहित्यं वा काव्यशास्त्रं, साहित्यविशेषस्य स्वरूपनिर्धारकत्वादिदं साहित्यशास्त्रमपि । तथैव काव्यगतसौन्दर्याधायितत्त्वव्याख्यातृत्वात् सौन्दर्यशास्त्रमपि चैतत्कथ्यते । अभिधानन्तु स्याद्यथा वा तथा, शास्त्रमिदं काव्यस्वरूपावधारकम् । तत्रापि काव्यसौन्दर्यनिमित्तं किं किमावश्यकं किञ्चानावश्यकं किं काव्यसौन्दर्योत्कर्षाधायकं किञ्च तद्घातकमित्यादिः अस्य विषयसमूहस्तेनेदं वस्तुतोऽलङ्कारशास्त्रं वा काव्यशास्त्रम्।

इतिहासः

[सम्पादयतु]

अलङ्कारशास्त्रमिदं कदाप्रभृति प्रवर्तितमिति तु न शक्यते इदमित्थन्तया वक्तुं तथाप्येतत्तुं मन्यते यद्यदैव काव्यं प्रवर्तितं तदाप्रभृत्येवालङ्कारशास्त्रमपि प्रवर्तितं कामं तस्य अभिलिखितरूपं पश्चादुदैत् विकासश्च पश्चात्काले समजायत । कामसूत्रेष्विदं क्रियाकल्पनाम्ना व्यवहृतं चतुःषष्टिकलास्वन्यतमत्वेन परिगणितमपि दृश्यते । ललितविस्तरेऽप्ययं क्रियाकल्पनाम्नैव व्यवहृतम् । तत्र क्रियाकल्प इति काव्यकरणविधिः काव्यालङ्कार इत्यर्थ इति कामसूत्रस्य जयमङ्गलाटीकायामुक्तम् । दण्ड्याचार्योऽपीदं तेनैव नाम्ना स्मरति । यथा -

‘वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम्' इति ।[]

वाल्मीकीयं रामायणमपि --

‘क्रियाकल्पविदश्चैव तथा काव्यविदो जनान्’[]

इत्युक्त्वा तदानीमपि काव्यशास्त्रीयपरम्परा प्रचलिताऽसीदिति सूचयति ।

अत्र हि काव्यविच्छब्दः काव्यकारवचनः क्रियाकल्पशब्दश्चालङ्कारशास्त्रवचनः। काव्यसमीक्षकान् कवींश्चेत्यस्याशयः।

तदस्य क्रियाकल्पशास्त्रस्य प्रारम्भविषये काव्यमीमांसायां राजशेखर उल्लिखति यत्, प्रजापतिः हि सारस्वतेयं काव्यपुरुषं काव्यविद्याप्रवर्तनाय प्रैरयत्। सोऽपि विद्याम् इमाम् अष्टादशाधिकरणेषु विभज्य एकैकमधिकरणं प्रत्येकम् अष्टादशशिष्यान् अध्यापयामास । तेऽपि हि स्वस्वविषये पुथक्पृथगेव ग्रन्थान् प्राणैषुः । तत्र सहस्राक्षः कविरहस्यं, औक्तिममुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रासिकं प्रचेताः, यमकं यमः, चित्रं चित्राङ्गदः, शब्दश्लेषं श्लेषः, वास्तवं पुलस्त्यः, औपम्यमौपकायनः, अतिशयं पराशरः, अर्थश्लेषमुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रूपकनिरूपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणोपादानिकम् उपमन्युः, औपनिषदिकं कुचमार इति ।

कथनस्यास्य का योनिरिति राजशेखर एव जानीयात् जनाः तु शब्दप्रमाणवादित्वाद् राजशेखरवचनम् एवाप्तवाक्यत्वेन गृह्णन्ति । तेषु ग्रन्थेष्वद्य नैकोऽपि दृष्टिविषय आचार्यश्च नन्दिकेश्वर-सुवर्णनाभ-कुचमारवर्जं नितान्तमेवाज्ञाताः । सम्भवति सहस्राक्षस्तु इन्द्र एव । इन्द्रो हि अष्टाविंशतिव्यासेषु प्रथमः सर्वविधशास्त्राणां प्रवक्तृत्वेन च सम्मतः । नन्दिकेश्वरश्च कलाचार्यरूपेण प्रसिद्धः । तस्य हि अभिनयविषयकोऽभिनयदर्पणाख्यो ग्रन्थः समुपलभ्यते च । सुवणनाभकुचमारौ तु कामशास्त्रस्योपजीव्याचार्यौ। कथनस्यास्य सत्यत्वेऽनिश्चितेऽपि एतत्तु सुनिश्चितमेव मन्यते यत्, क्रियाकल्पश्चतुःषष्टिकलासु अन्यतमत्वेन अतिप्राचीनकालादेव प्रवृत्तो दृश्यते । स्वयम्भूरेव कविपदेनाभिधीयते उपनिषत्षु ‘कविर्मनीषी परिभूः स्वम्यभूः'[] इत्यादिवाक्येषु । तत्र हि अग्निरपि कविशब्देनं व्यपदिष्टः 'कवि सम्राजमतिथिञ्जनाना'-इत्यादिवाक्येषु । इन्द्रस्तु कवितम उक्तः । एतदनुमीयते यत्, प्राचीनकालेऽपि कवि-काव्य-क्रियाकल्पादिशब्दानां भूयानेव प्रयोग आसीत् । भृगुपुत्रः शुक्राचार्यस्तु भूम्ना कविशब्देन काव्यशब्देन च व्यवह्रियते । स एव प्रथमः क्रियाकल्पस्य प्रवक्ता इति मन्यते। यास्काचार्यस्तु क्रियाकल्पाचार्यत्वेन गार्ग्यं स्मरति । यथा -

'अथात उपमा यदतत्तत्सदृशमिति गार्ग्यः।'[]

एवमेव लोचनकारो भागुरिं काव्याचार्यत्वेन स्मरति सोमेश्वरश्च । भावप्रकाशनकर्ता शारदातनयं आद्यकाव्याचार्यत्वेन भगवन्तं शङ्करं स्मरति । स हि कुम्भयोनिनारदावपि काव्याचार्यत्वेन स्मरति । प्राचीनाचार्यविषयकसंस्मरणे सद्यः रूपकमधिकृत्य भरतस्य नाट्यशास्त्रं कविरहस्यमधिकृत्य भामहस्य काव्यालङ्कारमेव प्राचीनतमे मन्येते तत्पूर्वप्रणीतग्रन्थान्तरादर्शनात् । स्वयमेव भरताचार्योऽपि सुवर्णनाभ-कुचुमार-प्रभृत्याचार्यान् स्मरति । स च स्वपूर्वाचार्यपठिता आर्याश्च सङ्गृह्णाति । यथाऽऽह अभिनवगुप्तः अभिनवभारत्याम् -

'ता एता ह्यार्या एकप्रघट्टकतया पूर्वाचार्यैर्लक्षणत्वेन पठिताः।

मुनिना तु सुखसङ्ग्रहाय यथास्थानं निवेशिताः॥'[] इति ।

एवमेव भामहश्च मेधाविनं स्वपूर्ववतत्वेन स्मरति । तथैव स -

"अवलोक्य मतानि सत्कवीनामवगम्य स्वधिया च काव्यलक्ष्म।

सुजनावगमाये भामहेन ग्रथितं रक्रिलगोमिसूनुनेदम्।।"[]

इत्युक्त्वा स्वपूर्ववर्तिनो बहूनाचार्यान् स्मरति । एवमेव -

रूपकादिमलङ्कारं बाह्यमाचक्षते परे ।

इत्यादिकथनेन तत्पूर्वमेव व्यवस्थितं काव्यशास्त्रमासीदित्यपि स सूचयति । दण्डी च, काश्यप-वररुचि-ब्रह्मदत्त-नन्दिकेश्वरप्रभृत्याचार्यान् स्मरति । भामहदण्डिनौ परस्परं नैवोल्लिखतः किन्तु तत्परवर्तिनः आचार्या भामहमेव पूर्ववतत्वेन गृह्णन्ति ।

"पूर्वेभ्यो भामहादिभ्यः सादरं विहिताञ्जलिः"[]

इति कथयन् विद्यानाथः,

"भामहोद्भटप्रभृतयश्चिरन्तनालङ्काराः"

इति वदन् रूय्यकश्च भामहमेव प्रथमाचार्यत्वेन प्रणमति । केचित्तु दण्ड्येव भामहात्पूर्ववर्ती । तस्य दाक्षिणात्यत्वेन काश्मीरैर्न स्मृत इति शुष्कं तर्कमपि समुपस्थापयन्ति, किन्तु काश्मीरेणैव वामनेन स सादरमनुसृतः। तदित्थं -

सहस्राक्ष-नन्दिकेश्वर-भरत-मेधावि-रुद्र-भामह-दण्डि-उद्भट-रुद्रट-भट्टनायक-वामन-मुकुल-प्रतिहारेन्दुराज-आनन्दवर्धन-महिमभट्ट-कुन्तक-अभिनवगुप्त-शौद्धोदनि-वाग्भट-रूय्यक-भोज-धनिक-मम्मट-हेमचन्द्र-केशवमिश्र-जयदेव-विद्यानाथ-विश्वनाथ-गोविन्दठक्कुर-विद्यानाथ-अप्पयदीक्षित-जगन्नाथ-विद्याभूषण-विश्वेश्वर-शोभाकर-अच्युतरायप्रभृतयः केचन प्रसिद्धाः अलङ्कारशास्त्रिणः । तथैव शङ्करनन्दिकेश्वर-भरताचार्य-धनञ्जय-धनिक-शारदातनय-विद्यानाथ-रामचन्द्र-गुणचन्द्र-विश्वनाथ-भानुदत्त-रूपगोस्वामिप्रभृतयः कतिचन प्रसिद्धाः नाट्यशास्त्रिणः । तत्रापि भरतभामहाभ्यामारभ्य विश्वेश्वरपर्यन्तमलङ्कारशास्त्रस्याक्षुण्णा परम्परा पुरतोऽस्ति।

एवञ्च भामहस्य काव्यालङ्कारः, दण्डिनः काव्यादर्शः, उद्भटस्य काव्यालङ्कारसारसङ्ग्रहः, रुद्रटस्य काव्यालङ्कारः, वामनस्य काव्यालङ्कारसूत्राणि, आनन्दनर्धनस्य ध्वन्यालोकः, कुन्तकाचार्यस्य वक्रोक्तिजीवितं, महिमभट्टस्य व्यक्तिविवेकः, भोजस्य सरस्वतीकण्ठाभरणं, शृङ्गारप्रकाशश्च, मम्मटस्य काव्यप्रकाशः, क्षेमेन्द्रस्य औचित्यविचारचर्चा, रूय्यकस्य अलङ्कारसर्वस्वम्, जयदेवस्य चन्द्रालोकः, हेमचन्द्रस्य काव्यानुशासनम्, विश्वनाथस्य साहित्यदर्पणम्, अप्पयदीक्षितस्य चित्रमीमांसा, कुवलयानन्दः च, जगन्नाथस्य रसगङ्गाधरः, विश्वेश्वरस्य अलङ्कारकौस्तुभम्, च अलङ्कारशास्त्रे मननोयग्रन्थाः। एतदतिरिक्तं गोविन्दठक्कुरस्य काव्यप्रदीपः, केशवमिश्रस्य काव्यशेखरः, वाग्भटस्य वाग्भटालङ्कारः, विद्याभूषणस्य साहित्यकौमुदी, राजशेखरस्य काव्यमीमांसा, मुकुलस्य अभिधावृत्तिमातृका, अप्पयस्य वृत्तिवार्तिकं, शोभाकरमित्रस्य अलङ्काररत्नाकरः, अमरचन्द्रस्य काव्यकल्पलता, विद्याधरस्य एकावली, विद्यानाथस्य प्रतापरुद्रयशोभूषणं च विषयेऽस्मिन् मननीयग्रन्थाः।

एवञ्च शङ्करस्य योगमायासंहिता, नन्दिकेश्वरस्य अभिनयदर्पणः, भरतस्य नाट्यशास्त्रम्, यदुपरि अभिनवगुप्तस्य अभिनवभारतीटीका, दशरूपकं यदुपरि सुदर्शनाचार्यस्य विवृत्तिर्लोकमणिदाहालस्य कलाटीका, सागरनन्दिनो नाटकलक्षणरत्नकोशः, रामचन्द्रगुणचन्द्रयोर्नाट्यदर्पणः, नाटकचन्द्रिका, विश्वनाथस्य साहित्यदर्पणः (षष्ठः परिच्छेदः) भानुदत्तस्य रसमञ्जरी, सुन्दरमिश्रस्य नाट्यप्रदीपः, शिवरामस्य रसरत्नहारो यदुपरिलोकमणिदाहालस्य कलाटीका, रूपगोस्वामिनः उज्ज्वलनीलमणिः चेतिप्रभृतिग्रन्थाः नाट्यशास्त्रसम्बद्धाः ।

उभावप्यधिकृत्यानेकाष्टीकाग्रन्था अपि प्रणीताः प्रथिताश्च सन्ति, येषु नाट्यशास्त्रोपरि अभिनवगुप्तस्याभिनवभारती, काव्यादर्शोपरि तरुणवाचस्पतेष्टोका, अज्ञातकर्तृका हृदयङ्गमाटीका, रत्नश्रीटीका, नृसिंहदेवस्य कुसुमप्रतिभाटीका, काव्यालङ्कारसारसङ्ग्रहोपरि प्रतिहारेन्दुराजस्य टीका, लघुविवृत्तिः, तिलकस्योद्भटविवेकः, काव्यालङ्कारसूत्रोपरि गोप्पेन्द्रतिप्पभूपालस्य कामधेनुटीका, लोकमणिदाहालस्य कलाटीका, रुद्रटकाव्यालङ्कारोपरि नमिसाधोष्टीका, आशीधरस्य टीका, ध्वन्यालोकोपरि अभिनवगुप्तस्य लोचनटीका, बदरीनाथस्य दीधितिटीका, चण्डेश्वरस्य दीपशिखा, लोकमणिदाहालस्य लीलाख्यप्रतिपदटीका, लोचनोपरि बालबोधिनी टिप्पणी, काव्यमीमांसोपरि टीका, दशरूपकोपरि धनिकस्यावलोकः, बहुरूपस्य टीका, सुदर्शनाचार्यस्य विवृत्तिः, लोकमणिदाहालस्य कलाख्यप्रतिपदटीका, व्यक्तिविवेकोपरि रुय्यकटीका, औचित्य विचारचर्चापरि लोकमणिदाहालस्य लीलाख्यप्रतिपदव्याख्या, सरस्वतीकण्ठाभरणोपरि रत्नेश्वरस्य टीका, काव्यप्रकाशोपरि षष्ठ्यधिकाष्टोका यासु रूय्यकस्य सतटीका, माणिक्यचन्द्रस्य सङ्केतटीका, नरहरेबलचित्तानुरञ्जनी, जयन्तभट्टस्य दीपिका, सोमेश्वरस्य काव्यादर्शः, वाचस्पतेर्वाचस्पतिटीका, चण्डीदासस्य दीपिका, विश्वनाथस्य काव्यप्रकाशदर्पणः, गोविन्दठक्कुरस्य काव्यप्रदीपः, यस्योपरि नागोजीभट्टस्य उद्द्योतटीका, भीमसेनस्य सुधासागरः, वामनस्य सुबोधिनी, भट्टगोपालस्य साहित्यचूडामणिः शिवप्रसादस्य हैमवतीटीका, शेषराजशर्म्मणो गुणवतीविवृत्तिः, अलङ्कारसर्वस्वोपरि जयरथस्य टीका, समुद्रबन्धस्य टीका, विद्याचक्रवतनः अलङ्कारसञ्जीवनी, काव्यानुशासनोपरि स्वोपज्ञटीका, वाग्भटस्य काव्यालङ्कारोपरि अष्टशधिकाष्टीकोः यासु क्षेमहंसस्य समासान्वयटिप्पणं गणेशस्य विवरणं, चन्द्रालोकोपरि वैद्यनाथस्य रमाटीका, विश्वेश्वरस्य राकागमटीका, एकावल्युपरि मल्लिनाथस्य तरलाटीका, प्रतापरुद्रयशोभूषणोपरि कुमारस्वामिनः रत्नापणटीका, साहित्यदर्पणोपरि पञ्चदशाधिकाष्टीकाः यासु अनन्तदासस्य लोचनं रामचरणतर्कवागीशस्य विवृत्तिः, हरिदासस्य अवतरणिका टीका, कृष्णमोहनस्य लक्ष्मीष्टीका, शेषराजशर्म्मणश्चन्द्रकलाटीका, शिवदत्तस्य रुचिराटीका, लोकमणिदाहालस्य कलाख्यप्रतिपदटोका, रसमञ्जयुपरि अनन्तपण्डितस्य व्यङ्ग्यार्थकौमुदी, नागेशस्य प्रकाशः, उज्ज्वलनीलमण्युपरि जीवगोस्वामिनो लोचनरोचनी, विश्वनाथस्य आनन्दचन्द्रिका, कुवलयानन्दोपरि आशाधरस्य दीपिका, वैद्यनाथस्य अलङ्कारचन्द्रिका, गङ्गाधरस्य रसिकरञ्जनी, चित्रमीमांसोपरि बालकृष्णस्य सुधा, लोकमणिदाहालस्य लीलाख्यप्रतिपदव्याख्या, रसगङ्गाधरोपरि नागेशभट्टस्य गुरुमर्मप्रकाशिका, बदरीनाथस्य चन्द्रिका, केदारविपश्चितो रसचन्द्रिका, मधुसूदनस्य मधुसूदनीविवृतिः, अलङ्कारकौस्तुभोपरि स्वोपज्ञटीका, लोकमणिदाहालस्य शेषराजी टीका, विदग्धमुखमण्डनोपरि शेषराजस्य चन्द्रकला टीका च ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. काव्यादर्शः, प्रथमपरिच्छेदः, ९
  2. ७/९४/७
  3. https://sa.wikisource.org/wiki/ईशावास्‍योपनिषद्
  4. निरु० ३।१३
  5. https://sa.wikisource.org/wiki/नाट्यशास्त्रव्याख्या_अभिनवभारती/अध्यायः_६
  6. https://sa.wikisource.org/wiki/काव्यालङ्कारः/षष्ठपरिच्छेदः
  7. https://sa.wikisource.org/wiki/प्रतापरूद्रीयम्