बिजापुरमण्डलम् (कर्णाटकम्)

बिजापुरमण्डलं (Bijapur District) कर्णाटकराज्यस्य मण्डलेषु अन्यतमम् । विजयपुरम् इति एतस्य नगरस्य पुरातनं नाम । पूर्वं ‘दक्षिणपञ्जाब’ इति ख्यातम् एतत् मण्डलं पञ्चनदीयुक्तम् आसीत् ।‘अन्नस्य कुसूलः(अन्नस्य भाण्डारम्)" इति च प्रसिद्धम् । पूर्वम् आदिलषाही वंशीयाः अत्र प्रशासनं कृतवन्तः । स्वातन्त्र्यात् पूर्वं मुम्बयीप्रशासनस्य अधीनः प्रदेशः आसीत् ।

बिजापुरमण्डलम्

ವಿಜಾಪುರ

विजयपुरम्, बिज्जनपुरम्
मण्डलम्
बिजापुरनगरे स्थितं गोल् गुम्बज़
बिजापुरनगरे स्थितं गोल् गुम्बज़
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
केन्द्रम् बिजापुरनगरम्
उपमण्डलानि बिजापुर, बसवनबागेवाडी,सिन्द्गी, इन्डि, मुद्देबिहाळ
Area
 • Total १०,५४१ km
Population
 (2010)
 • Total २२,०६,९१८
 • Density २५०/km
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
दूरवाणीसंज्ञा + 91 (0) 8352
Vehicle registration KA- 28
Website bijapur.nic.inbijapur.com
कर्णाटके बिजापुरमण्डलम्

विस्तीर्णता

सम्पादयतु
  • १०४७५च.कि.मी

उपमण्डलानि-५

सम्पादयतु

बिजापुरम्, इण्डी, बसवनबागेवाडी, सिन्दगी, मुद्देबिहाळ

कृष्णा भीमा डोणी(द्रोणा)

उत्तरकर्णाटकस्य अभिवृद्धिशीलमण्डलेषु अन्यतमम् एतत् मण्डलम् । राजधान्याः बेङ्गळूरुतः उत्तरपश्चिमस्यां दिशि ५३०कि.मी. दूरे एतन्मण्डलम् अस्ति । इदं मण्डलं पञ्चनदीनां स्थानमिति प्रसिद्धम् । अतिन्यूना वृष्टिः भवति । कृष्यर्थं जलस्य व्यवस्था सम्यक् नास्ति ।

इतिहासः

सम्पादयतु
विजयपुरम् इति अस्य पूर्वतनं नाम । इतिहासप्रसिद्धस्थलैः पूर्णम् एतन्मण्डलम् । १०-११ शतकयोः कल्याणीचालुक्यैः स्थापितं नगरमिदम् ।
त्रयोदशशतकस्य उत्तरार्धकाले देहल्याः खिल्जिसुल्तानस्य हस्तगतम् इदं विजयपुरम् क्रि.श. १२४७ तमे वर्षे बीदरस्य बहमनि सुल्तानराजानां वशमागतम् ।
क्रि.श.१७६० तमे वर्षे मराठावंशजैः पराजितः विजापुरनिजामः ।
क्रि.श १८४८ तमे वर्षे ते विजयपुरं साताराजनेभ्यः समर्पितवन्तः । ते विजयपुरं मुम्बैप्रान्ते विलीनं कृतवन्तः ।
स्वातन्त्र्योत्तरकाले क्रि.श. १९५६ तमे वर्षे तदानीन्तनः सर्वकारः बिजापुरमण्डलं कृत्वा मैसूरुराज्ये संयोजनम् अकरोत् ।

भैगोलिकता

सम्पादयतु

एतत् मण्डलं महाराष्ट्रस्य सीमाप्रदेशे विराजते । एतेन मण्डलेन कर्णाटकराज्यस्य ५.४९% विस्तीर्णता प्राप्ता अस्ति । पूर्वे गुल्बर्गामण्डलं, दक्षिणे रायचूरुमण्डलं, पश्चिमे बेलगावीमण्डलम् च अस्ति ।

संस्कृतिः

सम्पादयतु

प्रमुखा प्रादेशिकभाषा तु कन्नडभाषा एव । किन्तु मराठी-उर्दु-हिन्दिभाषाः भाषमाणाः जनाः अपि अधिकाः सन्ति । कृषिः प्रधानः उद्योगः। तथापि वस्त्रवयनम् अपि बृहत्प्रमाणेन एव अस्ति । जूर्णम् , चणकः, गोधूमः, व्रीहिः, सूर्यकन्तिः, द्राक्षा, पलाण्डुः, दाडिमः, निम्बः इत्यादीनां वर्धनम् आधिक्येन दृश्यते।

प्रसिद्धाः व्यक्तयः

सम्पादयतु

बसवेश्वरः, डा.मोदि, चेन्नबसप्प अम्बलि, इत्यादयः ख्यातनामाः अत्रैव सञ्जाताः च ।

बिजापुरमण्डले पूर्वप्राथमिकशिक्षणात् आरभ्य स्नातकोत्तरकेन्द्रपर्यन्तं सर्वविधव्यवस्थाः अत्र सन्ति । कला-विज्ञानम्-वाणिज्य-प्रशासनशास्त्र-गणकविज्ञान- आयुर्वेदशास्त्र-तन्त्रविज्ञानां च बोधनार्थं विश्वविद्यालयाः सन्ति । कर्णाटकस्य एकैकः महिलाविश्वविद्यालयः अत्रैव विराजते । केन्द्रसर्वकारस्य रक्षणाविभागस्य सैनिकशाला अपि अत्र अस्ति ।

दर्शनीयानि स्थानानि

सम्पादयतु

अस्य मण्डलस्य अनेकाः चारित्रिकांशाः पर्यटकाकर्षकाः सन्ति । महम्मदीयशैल्याः वास्तुशिल्पाः अत्र प्रसिद्धाः । महम्मद आदिल् शाहस्य काले निर्मितः गोलगुम्बजः, ताजमहल् इव विन्यस्तम् इब्राहिं आदिल् शाहस्मारकम्, मुल्क् ए मैदान् शतघ्नी , बारा कमान्. जुम्मामसीदि, इत्यादीनि प्रसिद्धानि यात्रास्थानानि सन्ति ।

तीर्थक्षेत्राणि

सम्पादयतु

बिजापुरम्।बिजापुरं, तोरवी, यलगूरु, निम्बाळ सिन्दगी कोरवार, कोण्डसुळि, इञ्चगेरी, काखण्डकी, बसवनबागेवाडी

बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । शिवरात्रिसमये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे जैनानां सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।

तोरवी क्षेत्रे गुहायां श्रीनरसिंहदेवालयः अस्ति । षडहस्तयुक्तः नरसिंहः हिरण्यकशिपोः वधं कुर्वन्निव चित्रितोऽस्ति । नृसिंहजयन्तिः अत्र विशेषोत्सवः।

दासश्रेष्ठस्य श्रीमहिपतिदासः।महिपतिदासस्य जन्मभूमिः । एषः । श्रीमहिपतिदासः आदिलषाहसंस्थाने अधिकारी आसीत् । सर्वं त्यक्त्वा गीतानि रचयन् कोल्हारे मृतः । काखण्डकीप्रदेशे तस्य बृन्दावनम् अस्ति । अत्र हिन्दवः मुस्लिमजनाः च भक्ताः इति विशेषः ।

बिजापुरम्तः ३५ कि.मी

४)यलगूरु (मुद्धेबिहाळ)

सम्पादयतु

कृष्णानदीतीरे स्थितः सप्तग्रामाधिपतिः श्रीवायुपुत्रः हनुमान् यलगुरे एळूरेश यलगुरप्प इत्यपि प्रसिद्धः अस्ति । श्रीरामस्य आज्ञया हनुमान् अत्र स्थितवान् । हनुमतः मूर्तिः अष्टपादपरिमितोन्नता भव्या स्वयंव्यक्ता च अस्ति । अलङ्काररहितसमये स्वर्णालङ्कारभूषितसमये कुङ्कुमाभिषेकसमये च दृश्यवैभवम् अत्र अवर्णनीयम् । विविधमतानुयायिनः भक्ताः इष्टार्थलाभाय अत्र आगत्य विविधसेवाः कुर्वन्ति । प्रदक्षिणनमस्कारः विशेषफलदायकः इति जनानाम् अभिप्रायः । अदिलषाहीकालतः एतत् क्षेत्रम् अतिप्रसिद्धम् अस्ति । एषः हनूमान् सन्तानदायकः भूतबाधानिवारकः रोगनिवारकः मनोभीष्टदायकः इति च प्रसिद्धः। यलगुरेशस्य अर्चनां क्षत्रियाः कुर्वन्ति । नैवेद्यरुपेण घृतं पोलिकाञ्च यच्छन्ति । शानिवासरे विशेषकार्यक्रमः प्रचलति ।

आलमट्टीरेलनिस्थानतः ४- कि.मी । गदग-सोलापुररेलमार्गः । राष्ट्रियमार्गः १३

महात्मनः बसवेश्वरस्य जन्मस्थानम् एतत् । द्वादशशतके जातः एषः धार्मिकक्रान्तिकारः। वीरशैवमतस्य च प्रवर्तकः। इदानीम् अपि वीरशैवानां पवित्रं तीर्थक्षेत्रम् अस्ति एतत् । तस्य जन्मस्थाने सुन्दरं मन्दिरं निर्मितम् अस्ति ।

ताळीकोटेयुद्धम्

सम्पादयतु

विजयनगरसाम्राज्यस्य पतने कारणीभूतं १५६५ तमे वर्षे प्रवृत्तं ताळीकोटेयुद्धं मण्डलकेन्द्रात् ९० कि.मी. दूरे प्रवृत्तम् ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु