मधुकर्कटीफलम्
पठन सेटिंग्स
(मधुकर्कटी इत्यस्मात् पुनर्निर्दिष्टम्)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/50/Starr_061105-1376_Carica_papaya.jpg/150px-Starr_061105-1376_Carica_papaya.jpg)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/84/Carica_papaya_-_K%C3%B6hler%E2%80%93s_Medizinal-Pflanzen-029.jpg/150px-Carica_papaya_-_K%C3%B6hler%E2%80%93s_Medizinal-Pflanzen-029.jpg)
एतत् मधुकर्कटीफलम् अपि सस्यजन्यः आहारपदार्थः । एषा मधुकर्कटी आङ्ग्लभाषायां Carica papaya इति उच्यते । कदली इव मधुकर्कटी अपि शलाटुदशायां शाकत्वेन उपयुज्यते । किन्तु सा एव यदा पक्वा भवति तदा तु फलायते । मधुकर्कटीसस्यं क्रान्तिवलयभूमौ प्रायः सर्वत्र वर्धते । भारते तु सर्वत्र दृश्यते एतत् । मधुकर्कट्यां बहवः औषधीयगुणाः सन्ति । यदा सस्यछेदः क्रियते तदा एतस्मात् सस्यात् श्वेतः द्रवविशेषः निर्गच्छति । फलदशायाम् एषः द्रवविशेषांशः सान्द्ररुपेण सङ्गृहीतः भवति ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d9/Carica_papaya_seedling_macro.jpg/200px-Carica_papaya_seedling_macro.jpg)
आयुर्वेदस्य अनुसारम् अस्य मधुकर्कटीफलस्य स्वभावः[सम्पादयतु]
- १. मधुकर्कटीफले पपेननामकः अंशः यथा, तथा ’ए’जीवसत्त्वम् अपि आधिक्येन भवति ।
- २. मधुकर्कटी वर्धमानानां बालानां कृते उत्तमः आहारः एषः ।
- ३. पक्वतादशायां मधुकर्कटी जीवसत्त्वस्य आकरः भवति ।
- ४. पक्वायाः मधुकर्कटयाः खादनेन भवन्ति बहवो लाभाः । मधुकर्कटी मलबद्धतां यथा तथा अतिसारमपि निवारयति ।
- ५. एषा मधुकर्कटी क्षुधावर्धिका अपि ।
- ६. अल्पाहारस्य अर्धघण्टातः पूर्वं यदि प्रतिदिनं मधुकर्कटी सेव्येत, तर्हि रक्तचापपीडा निगृहीता भवेत् निश्चयेन ।