सामग्री पर जाएँ

जामनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जाम्नगर मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
जामनगरमण्डलम्

Jamnagar district

જામનગર જિલ્લો
मण्डलम्
गुजरातराज्ये जामनगरमण्डलम्
गुजरातराज्ये जामनगरमण्डलम्
देशः  India
विस्तारः १४,१२५ च.कि.मी.
जनसङ्ख्या(२०११) २,१५९,१३०
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website jamnagar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

जामनगरमण्डलम् (गुजराती: જામનગર જિલ્લો, आङ्ग्ल: Jamnagar district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति जामनगरम् इति नगरम् । अस्मिन्नेव मण्डले तिष्ठति भगवतः कृष्णस्य द्वारका

भौगोलिकम्

[सम्पादयतु]

जामनगरमण्डलस्य विस्तारः १४,१२५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे राजकोटमण्डलं, पश्चिमे अरब्बीसमुद्रः, उत्तरे 'गल्फ् आफ् कच्छ', दक्षिणे पोरबन्दरमण्डलम् अस्ति । अस्मिन् मण्डले ५५४ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । भागेडी, फूलझर, आजी, घी, सोरठि, रणमती, नागमती, भवानी, धोलावडी, कालावडी, धाहर, पन्ना, रूपवती, सौनी, खारी, वर्ती, सोनमती, वीरडी इत्येताः अस्मिन् मण्डले प्रवहन्त्यः प्रमुखाः नद्यः सन्ति ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं जामनगरमण्डलस्य जनसङ्ख्या २१,५९,१३० अस्ति । अत्र ११,१४,३६० पुरुषाः १०,४४,७७० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.३८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३८ अस्ति । अत्र साक्षरता ७४.४०% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ भाणवड २ ध्रोल ३ जामजोधपुरं ४ जामनगरम् ५ जोडिया ६ कालावड ७ कल्याणपुरं ८ खम्भालिया ९ लालपुरम् १० ओखा

कृषिः वाणिज्यं च

[सम्पादयतु]

पपितफलं, चिकूफलम्, आम्रफलं, नारिकेलः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । पलाण्डुः, वार्तिकी ('टमेटो'), आलुकं, 'कोलीफ्लवर्', 'क्लस्टर् बीन्स्', लसुनं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । सुगन्धद्रव्याणि/परिव्ययाः, कलायः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । लसुनस्य उत्पादनेऽपि अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । पित्तलोत्पादनं, वर्णयुक्तपटनिर्माणम् ('बान्धणी'निर्माणम्), 'एञ्जिनियरिङ्ग्', तैलोत्पादनं, 'प्ल्यास्टिक्स्', रासायनिकोद्यमः, लवणोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । 'रिलयन्स् पेट्रोकेमिकल्स्' नामकः अतिविशालः यन्त्रालयः जामनगरे संस्थापितोऽस्ति । अपि च जामनगरे एव विद्यमानः आयुर्वेदविश्वविद्यालयः समग्रे भारते प्रतिष्ठितः, प्रसिद्धः, परिगणितश्च ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्य मण्डलस्य केन्द्रे जामनगरे स्थितः लखोटानामकः तडागः प्रसिद्धं वीक्षणीयस्थलम् अस्ति । तडागं परितः उद्यानं, मृगालयः च अस्ति । लखोटा-सङ्ग्रहालयः अपि प्रसिद्धं वीक्षणीयस्थलम् अस्ति । पुरातनं खिजडा-मन्दिरम् अपि जामनगरे एव अस्ति । १९८२ तमे वर्षे संस्थापितं भारतस्य प्रथमं 'मरीन् न्याषनल् पार्क्' अस्मिन्नेव मण्डले अस्ति । अस्मिन्नेव मण्डले द्वारकायां विद्यमानः जगत्प्रसिद्धः कृष्णस्य द्वारकाधीशदेवालयः यात्रिकाणां प्रमुखं वीक्षणीयस्थलम् अस्ति । नागेश्वरदेवालयोऽपि अस्मिन्नेव मण्डले वर्तते । द्वादशज्योतिर्लिङ्गेषु अन्यतमं नागेश्वरनामकं ज्योतिर्लिङ्गम् अस्मिन् देवालये अस्ति । अस्मिन् मण्डले बहवः सागरतटाः सन्ति । तेषु पिरोटन-द्वीपस्य सागरतटः, बालाछडी-सागरतटः च प्रसिद्धं वीक्षणीयस्थलम् अस्ति । खिजडिया-पक्षिधाम, गागा-वन्यजीविधाम, रतनबाई मस्जिद् च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]