सामग्री पर जाएँ

भिन्नेक तुङ्ग्गल इक (भिन्नतायाम् एकता)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
इंडोनेशिया का राजकीय चिह्न भिन्नेक तुंग्गल इक

कावी भाषया लिखितं भिन्नेक तुंग्गल इक इत्येतत् इंडोनेशियादेशस्य आदर्शवाक्यं विद्यते । अस्य अर्थः - भिन्नतायाम् एकता इति । इदं मजापहितसाम्राज्यावधौ १४ शताब्दौ प्रणीते काकविन सुतसोमनामके काव्ये विद्यते ।

मूलकाव्यम्

इयं सूक्तिः १३९ त्तमे अध्याये ५ परिच्छेदे विद्यते ।

Rwâneka dhâtu winuwus Buddha Wiswa,
Bhinnêki rakwa ring apan kena parwanosen,
Mangka ng Jinatwa kalawan Siwatatwa tunggal,
Bhinnêka tunggal ika tan hana dharma mangrwa.

अनुवादः

  • प्रसिद्धः बुद्धः शिवश्च विभिन्नांशयुतौ ।
  • तौ भिन्नौ, किन्तु दृष्ट्या एव तयोः भेदः अवगन्तुं शक्यम् ।
  • यतः बुद्धस्य शिवस्य च मूलसत्यम् एकमेव ।
  • तौ विभिन्नौ, किन्तु समानौ, यतः परमं सत्यमेकमेव ।

अयम् अनुवादः डा सोविटो सण्टोसो - इत्यनेन लिखितं विमर्शम् आधारीकृत्य लिखितमस्ति ।

सन्दर्भः

  • Santoso, Soewito Sutasoma, a Study in Old Javanese Wajrayana 1975:578. New Delhi: International Academy of Indian Culture.