सामग्री पर जाएँ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१६:२४, २७ मे २०२३ पर्यन्तं संस्कृतम् (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)

भारतीयाक्षरमालासु, विशेषतः द्रविडाक्षरमालासु, विद्यमानं एकं व्यञ्जनाक्षरम् अस्ति । इदं अक्षरं कैरळीलिप्यां (अथवा मलयाळलिप्यां) ഴ इति लिख्यते। तमिऴलिप्यां ழ इति लिख्यते। आङ्ग्लभाषायां तस्य लिप्यन्तरं ḻ इति भवति।

ऴ मलयाळलिप्यां

तेलुगुभाषायां विष्णुकुण्डीनां पूर्वाचालूक्यानां च शिलालेखेषु कन्नडभाषायां राष्ट्रकूटानां शिलालेखेषु च इदं अक्षरं समानरूपेण (ೞ इति) दृश्यते। ततः परं एतयोः द्रविडभाषायोः एतत् अक्षरं लुप्तं जातम्।

मलयाळभाषायां तमिऴभाषायां च अस्य अक्षरस्य बहुधा प्रयोगः मूलरूपेण भवति। मलयाळम् अस्य मूलोच्चारणं बहु सम्यक् परिरक्षति। परन्तु, तमिऴभाषा बहुषु अवसरेषु ऴकारस्य वास्तविकं उच्चारणं ळ इति परिवर्तयति।

वैदिककाले संस्कृते अपि इदं अक्षरं आसीत्। किन्तु, देवनागरीलिप्यां अस्य अक्षरस्य प्रयोगाय लिपिविशेषः नासीत्। देवनागरीलिपिना लिखितेषु वैदिकशास्त्रेषु अस्य अक्षरस्य उच्चारणार्थं ळ्ह इति लिपिः प्रयुक्ता आसीत्। यत्र यत्र ऴकारस्य उच्चारणं जातम्, तत्र तत्र देवनागरीलिप्यां ळ्ह इति प्रयुक्तम्।

यथा -

प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम्।
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥(ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १)

स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः।
विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः॥ (ऋग्वेदः, सूक्तं १.१२२, मन्त्रं १०)

यथा च -

ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः
दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान्॥(ऋग्वेदः, सूक्तं ६.६०, मन्त्रं २)

ता नो वाजवतीरिष आशून्पिपृतमर्वतः।
इन्द्रमग्निं च वोळ्हवे॥ (ऋग्वेदः, सूक्तं ६.६०, मन्त्रं १२)

यथाऽपि -

पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे।
स नो यवसमिच्छतु॥ (ऋग्वेदः, सूक्तं ७.१०२, मन्त्रं १)

केवलं केचन वेदशाखाः ऴ (पुरा, ळ्ह इति लिपिः) ध्वनिः धारयन्ति स्म। केचन शाखाः तस्य स्थाने शब्दस्य प्रयोगं कुर्वन्ति स्म। ऴ (पुरा, ळ्ह इति लिपिः) शब्दप्रयुक्तानां शाखानां विलुप्ततायाः सह तत् अक्षरमपि विलुप्तं जातम्। अद्यतनकालपर्यन्तं लौकिकसंस्कृते एतत् अक्षरं प्रायः नासीत्।

गतकाले, देवनागरी लिप्यां अस्य अक्षरस्य प्रयोगार्थं ष़ इति लिपिः अपि प्रचलति स्म। अद्यतनकालपर्यन्तम् एषा लिपिः मुख्यतया द्रविडशब्दानां प्रतिलेखनार्थं प्रयुक्ता आसीत् येषु एतत् अक्षरं भवति। परन्तु, आधुनिककाले, देवनागरीलिप्यां सर्वदा अस्य अक्षरस्य प्रतिनिधित्वार्थं ऴ इति लिपिः प्रयुक्ता भवति।

इदमपि पश्यतु

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=ऴ&oldid=477726" इत्यस्माद् प्रतिप्राप्तम्