सामग्री पर जाएँ

चन्द्रशेखर आजाद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१७:०७, १९ नवेम्बर् २०१५ पर्यन्तं 117.196.32.33 (सम्भाषणम्) द्वारा जातानां परिवर्तनानाम् आवलिः
चन्द्रशेखर आजाद
आजादस्य मूर्तिः (आल्फ्रेड्-उद्यानम्, अलहाबाद्, उत्तरप्रदेशराज्यम्, भारतम्)
जन्म चन्द्रशेखर तिवारी
(१९०६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२३)२३ १९०६
भावराग्रामः, अलिराजपुरम्[][]
मृत्युः २७ १९३१(१९३१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२७) (आयुः २४)
अलहाबाद्, उत्तरप्रदेशराज्यम्, भारतम्
देशीयता भारतीयः
अन्यानि नामानि आजाद्
शिक्षणस्य स्थितिः महात्मा गाँधी काशी विद्यापीठ Edit this on Wikidata
वृत्तिः क्रान्तिकारिनायकः, स्वातन्त्र्ययोधा
Organization हिन्‍दुस्‍तान प्रजातन्‍त्र संघ
कृते प्रसिद्धः शौर्यम्
आन्दोलनम् भारतस्य स्वातन्त्र्यसङ्ग्रामः

जननम् बाल्यम् च

चन्द्रशेखर आजाद भारतदेशस्य स्वातन्त्र्यसम्पादनार्थम् आङ्गलशासनविरुद्धम् आन्दोलनं कृतवान् । स्वातन्त्र्यं मे जीवितम् इति सः अमन्यत । अयं चतुर्विंशे वयसि शत्रुभिः परिवृतः सन् गोलकावेधेन आत्मनैव आत्मानं मारितवान् क्रान्तिवीरः । चन्द्रशेखरः मध्यप्रदेशे भावराग्रामे षडधिकनवदशशततमे (१९०६) क्रिस्ताब्दे जुलैमासे त्रयोविंशतितमे दिने अजायत । तस्य पिता सीतारामतिवारिः । सः कस्मिंश्चित् उपवने वनपालक आसीत् । माता जगराणीदेवी । १९५६ ख्रीस्‍ताब्‍दस्‍य अकालकारणात् स्‍वपैत्रिकस्‍थानं बदरकां परित्‍यज्‍य मध्‍यप्रदेशस्‍य अलीराजपुररियासते सेवां प्रदत्‍तवान् अनन्‍तरं भावरा ग्रामे न्‍यवसत् । अत्रैव बालचन्‍द्रशेखरस्‍य बाल्‍यकालः अतीतः । आदिवासीप्रदेशे तस्य बाल्‍यकालः व्‍यतीतः । भीलबालकैः सह धनुषाभ्‍यासः सम्‍यकतया कृतः तेन । लक्ष्‍यभेदे सः बाल्‍यकाले एव प्रवीणः अभवत् । बाल्ये एव चन्द्रशेखरः संस्कृतभाषामभ्यसितुं वाराणसीं गत्वा तत्र अध्ययनम् आरभत। तस्मिन्नेव समये सर्वत्र भारते स्वातन्त्र्यान्दोलनं प्रचलितमासीत् । तत्काले क्रूरं जलियन्वालाहत्याप्रकरणं श्रुत्वा उद्विग्नः चन्द्रशेखरः भारतदेशे आङ्गल-शासनम् उन्मूलयितुमैच्छत् । तदानीं महात्मागान्धीमहाभागः लाललजपतरायः, मदनमोहनमालवीयः इत्यादयो नेतारः भारतीयस्वातन्त्रान्दोलनस्य धुरीणाः आसन् । तदा वाराणसी क्रान्तिकारिणां केन्‍द्रमासीत् । चन्‍द्रशेखरस्‍य मनसि देशस्‍य बन्‍धनमुक्‍त्‍यर्थं सशस्‍त्रान्‍दोलनमेव वरम् इत्यभासत । मन्‍मथनाथगुप्‍त-प्रणवेश चटर्जी इत्‍ययोः सम्‍पर्के आगतः सः क्रान्तिकारिसमूहस्‍य सदस्‍यतां स्‍वीकृतवान् । क्रान्तिकारिणां संघः हिन्‍दुस्‍तान प्रजातन्‍त्र संघ इति नाम्‍ना निर्दिश्यते स्‍म ।

असहकारान्दोलनम्

चन्द्रशेखर आजाद

तदा आङ्गलशासनकार्येषु भारतीयैः सहकारो न देयः इति धिया असहकारान्दोलनं प्रवृत्तम् । तत्काले एकदा वाराणस्यां महती जनयात्रा प्रावर्तत । तस्यां यात्रायां कश्चन धुरीणः त्रिवर्णध्वजं हस्ते गृहीत्वा पुरतः गच्छन्नासीत् । तम् आरक्षकाः अत्यन्तम् अताडयन् । एतत्सर्वं दूरादेव अवलो

बालकेन दत्तमेवंविधं वीरोचितम् उत्तरं श्रुत्वा तत्रत्याः सर्वे जनाः तमभ्यनन्दयन् । आजाद् इत्येव तमाह्वयन् । ततः प्रभृति चन्द्रशेखर- 'आजाद' इत्येव सः प्रथितः । वस्तुतः आजाद् इत्यस्य हिन्दीभाषायां स्वातन्त्र्यमित्यर्थः । एतादृशेन उत्तरेण क्रुद्धो न्यायाधीशः आजादस्य वेत्रताडनदण्डनम् आदिशत् । आजादस्तु प्रतिताडनं महान्तं क्लेशमनुभवन् अपि 'वन्दे मातरं’, 'जयतु गान्धीमहोदयः’ इत्यादि उद्घोषणं नात्यजत् । तदारभ्य सः स्वातन्त्र्यान्दोलने प्रधानं भागं वहन्नेव अभ्यवर्धत ।

स्वातन्त्र्यान्दोलनम्

एकदा आङ्ग्लशासनविरुद्धं भित्तिपत्रस्थापनं सर्वत्र प्राचलत् । स्वातन्त्र्यान्दोलने प्रविष्टाः सर्वे सदस्याः अन्यान्यस्थानेषु भित्तिपत्रस्थापने व्यापृताः । चतुरः आजादस्तु आरक्षकस्थानेऽपि तत्स्थापयितुम् ऐच्छत् । एकं भित्तिपत्रं स्वीकृत्य उभयतः निर्यासलेपं कृत्वा पृष्ठे धृत्वा आरक्षकस्थानमगच्छत् । तत्र स्तम्भसमीपे स्थित्वा केनचिदारक्षकपुरुषेण कुशलवार्तालापं कुर्वन्नेव तदविदितं, स्तम्भे पृष्ठं निपीडय भित्तिपत्रं तत्र लग्नमकरोत् । ततः संलापं परिसमापितवान् इव आरक्षकम् आमन्त्र्य क्वापि अगच्छत् । पथिकजनाः आरक्षकस्थानेऽपि भित्तिपत्रं पश्यन्तः विस्मिताः अभवन् ।

भारतीयगणराज्यसेनाप्रवेशः

इलाहाबादस्य आज़ाद-उद्यानवने अस्य वृक्षस्य अधः एव ब्रिटिश्जनैः युद्ध्यमानः वीरगतिं प्राप्नोत्

आजादः षोडशे वयसि रामप्रसादबिस्मिल्लेन आयोजितां भारतीयगणराज्यसेनाम् आविशत् । तस्यां सेनायां क्रान्तिकारिषु आन्दोलनेषु निपुणं शिक्षितोऽभवत् । एकदा गणराज्यसेनासदस्याः सर्वे सेनाकार्यार्थं धनं सङ्ग्रहीतुकामाः सर्वकारीयवित्त्वकोशमेव अपहर्तुं प्रवृत्ताः । तत्प्रसङ्गे च ते सर्वे सैनिकाः दुर्दैववशात् आरक्षकैः गृहीता अभवन् । नायकः बिस्मिल्लोऽपि आरक्षकहस्तगतः अभवत् । आजादस्तु आरक्षकमध्ये एव सञ्चरन्नासीत् । बिस्मिल्ले मरणदण्डेन मृते सति आजाद एव सेनानायकोऽभवत् । भगतसिंहनामकः अन्योऽपि वीरः क्रान्तिकारी तरुणः तस्य सहायकोऽभूत् । तस्मिन् काले आङ्ग्लशासनं 'साइमन्’ नामकस्य आध्यक्ष्ये एकां समितिमरचयत् । तस्याः समितेः उद्देशस्तु साधुपरिवर्तनव्याजेन स्वातन्त्र्यान्दोलने शैथिल्योत्पादनमेव आसीत् । अतः तस्य बहिष्करणाय लालालजपतरायप्रभृतयः प्रवृत्ताः । तदा लालालजपतरायः आरक्षकैः निर्दयं ताडितः सन् अचिरेण मृतवान् । तस्य प्रतीकारं विधातुम् आजादसेना 'साण्डर्स’नामानम् आरक्षकाधिपं व्यापादयत् । ततः प्रभृति आजादं ग्रहीतुम् आरक्षकाः सर्वप्रकारेण प्रयत्नम् अकुर्वन् ।

प्राणार्पणम्

वञ्चकाः केचन गुप्तवेषाछ्छन्नाः सन्तः आजादसेनां प्रविश्य सर्वं रह्स्यम् आरक्षकेभ्यः आवेदयन् । एकदा आजादः अलहाबाद्-नगरे आल्फेड्-उद्याने कुत्रचित् मित्रेण साकं सम्भाषमाण आसीत् ।

बाह्यसम्पर्कतन्तुः

  1. Chandra Shekhar Azad (1906-1931)
  2. Bhawan Singh Rana (1 January 2005). Chandra Shekhar Azad (An Immortal Revolutionary Of India). Diamond Pocket Books (P) Ltd. p. 10. ISBN 978-81-288-0816-6. आह्रियत 11 September 2012.