तस्माच्छास्त्रं प्रमाणं ते...
दिखावट
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
- ज्ञात्वा शास्त्रविधानोक्तंकर्म कर्तुमिहार्हसि ॥ २४ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।
पदच्छेदः
तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तंकर्म कर्तुम् इह अर्हसि ॥
अन्वयः
तस्मात् कार्याकार्यव्यवस्थितौ ते शास्त्रं प्रमाणम् । शास्त्रविधानोक्तंकर्म ज्ञात्वा इह कर्तुम् अर्हसि ।
पदार्थः
- कार्याकार्यव्यवस्थितौ = कर्तव्याकर्तव्यव्यवस्थायाम्
- शास्त्रम् = अबाधितार्थप्रतिपादकं वाक्यम्
- प्रमाणम् = ज्ञानसाधनम्
- शास्त्रविधानोक्तम् = शास्त्रविहितम्
- ज्ञात्वा = विदित्वा ।
तात्पर्यम्
तस्मात् यदा तव कार्ये अकार्ये वा विषये सन्देहो भवति तदा तव शास्त्रं प्रमाणम् । तत्र स्थितेन वाक्येन यत् प्रतिपाद्यते तदेव कार्यं कर्तुमर्हसि ।