सामग्री पर जाएँ

स्वातन्त्र्यदिनोत्सवः (भारतम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
०७:३३, १५ आगस्ट् २०१३ पर्यन्तं Bhaskar Bhatt Joshi (सम्भाषणम् | योगदानानि) द्वारा जातानां परिवर्तनानाम् आवलिः
स्वातन्त्र्यदिनोत्सवः
स्वातन्त्र्यदिनोत्सवः
देहल्यां रक्तदुर्गे ध्वजविकासः
के आचरन्ति  भारतम्
वर्गः National holiday
दिनाङ्कः आगष्टमासस्य १५ तम दिनाङ्कः
देहल्यां रक्तदुर्गे ध्वजारोहणम्

१९४७ तमस्य वर्षस्य आगष्टमासस्य १५ दिनाङ्के भारतदेशः स्वतन्त्रः अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन (Independence Day (India)) आचर्यते । तत्पूर्वम् आङ्लेयाः अत्र प्रशासनं कुर्वन्ति स्म । आगस्टमासस्य चतुर्दशदिनाङ्के रात्रौ द्वादशवादने आङ्ग्लेयाः प्रशासनाधिकारं भारतं प्रति हस्तान्तरितं कृतवन्तः । तस्य स्मरणार्थमेव १५ अगस्टदिने स्वातन्त्र्योत्सवः आचर्यते । अस्मिन् दिने सार्वजनिकरूपेण राष्ट्रियपर्व आयोज्यते । भारतदेशे पूर्वं महम्मदीयाः विदेशात् आगत्य अत्र स्थित्वा प्रशासनं कृतवन्तः । अनन्तरम् आङ्ग्लेयाः, फ्रान्सदेशीयाः, नेदरर्लेण्डदेशीयाः, पुर्तुगालदेशीयाः च आगतवन्तः । सर्वे अत्र शासनं कृतवन्तः । तेषु प्रबलाः आङ्लेयाः बहुकालपर्यन्तं प्रशासनाधिकारं प्राप्तवन्तः । भारतीयाः स्वातन्त्र्यप्रियाः । कर्णाटकराज्ये इदं प्रथमतया राज्ञी कित्तूरु चेन्नम्मा आङ्लानां विरुद्धम् अप्रतिमं युद्धं कृतवती । झान्सीराज्ञी लक्ष्मीबायी अश्वमारुह्य युद्धं कृत्वा जनानपि प्रचोदितवती । देशे स्वाभिमानिनः राष्ट्रभक्ताः आङ्गलानां विरुद्धम् अनेकरीत्या क्रान्तिकारिमार्गेणापि कार्यं कृतवन्तः । भगतसिंहः मदनलालाधिङ्ग्रा, चन्द्रशेखर आजादः मैलारमहादेवः सङ्गोळ्ळीरायण्णः नानासाहेबः इत्यादयः आङ्ग्लान् विरुध्य कार्यं कृतवन्तः । केचन स्वप्राणार्पणमपि कृतवन्तः । तेषां अन्तिमसमयेऽपि मनसि वचने च “भारत माता कि जय” ‘वन्दे मातरम्’ ध्वनिः प्रतिध्वनति स्म । भारतदेशं स्वतन्त्रं कर्तुम् आन्दोलनं प्रवृत्तम् आसीत् । राजगुरुः सुखदेवः भगतसिंहः इत्येतेषां मरणदण्डनं १९३१ तमे वर्षे अभवत् । यदा १८८५ तमे वर्षे काङ्ग्रेस् संस्था स्थापिता तदा सामूहिकरुपेण आन्दोलनं कर्तुं व्यवस्था अभवत् । भारतीयाः सैनिकाः १८५७ तमे वर्षे आङ्ग्लान् विरुध्य सेनायाम् आन्दोलनं कृतवन्तः । तस्य सैनिकक्रान्तिः इति कथयन्ति । तस्मिन समये झान्सीराज्ञी लक्ष्मीबायी श्रीनानासाहेबः इत्यादयः आङ्गलान् विरुध्य युद्धमपि कृतवन्तः । एवम् स्वातन्त्र्यज्योतिः सततम् उद्दीपिता आसीत् । प्रथमम् आङ्ग्लेयाः भारतं व्यापारार्थम् आगतवन्तः । भारते लभ्यमानं कार्पासम् एलालवङ्गादि-उपस्करवस्तूनि क्रीत्वा इङ्गलैण्डदेशं नयन्ति स्म । ततः उक्तमवस्त्रं निर्माय अत्र पुनः विक्रयणं कुर्वन्ति स्म । एवम् आङ्गलानाम् अतीवलाभः भवति स्म । भारते ५ शताधिकानि संस्थानानि आसन् । ते सस्थानिकाः वैरं साधयन्तिस्म । एतं आन्तरिकं वैरं उपयुज्य आङ्गलाः अत्र प्रशासनम् कर्तुं आरम्भं कृतवन्तः । १८५६ वर्षसमये समग्रे भारते आङ्गलानां प्रबलता आसीत् ।

सर्वकारीयकार्यालये ध्वजवन्दनम्

महाराष्ट्रे श्रीगोपालकृष्णगोखले बालगङ्गाधरतिलकः इत्यादयः जनेषु जागृतिः कृतवन्तः । तिलक महोदयेन केसरी, माराठा, इति पत्रिके अपि प्रकाशिते । सः ‘स्वातन्त्र्यं मम जन्मसिद्धः अधिकारः’ इति घोषितवान् । महाराष्ट्रे गणेशोत्सवं राष्ट्रियपर्वरुपेण वैभवेन आचर्य तत्रैव देशभिमानम् जागरितवान् । बङ्गालप्रान्ते आङ्गलानां विरुद्धं अनेकान्दोलनानि आयोजितानि । यतः तत्रैव आङ्गलानां व्यवहाराः इदं प्रथमतया आरब्धाः आसन् । मोहनदासकरमचन्दगान्धिः दक्षिणआफ्रिकादेशे वर्णद्वेषं दासतां च विरुध्य अहिंसात्मकं सत्याग्रहं कृत्वा १९१५ तमे वर्षे भारतम् आगतवान् । काङ्ग्रेससंस्थायां प्रविष्टः गान्धिः स्वातन्त्र्यान्दोलने नवीनतां आनीतवान् । ततः यदा आङ्गलाः विधिनियमान् कृत्वा शोषणं कृतवन्तः तदा आन्दोलनेन विरोधः प्रकटितः अभवत् । आङ्गलाः लवणोत्यादने निषेधं कृतवन्तः तदा दाण्डी स्थले लवणसत्याग्रहः सञ्चालितः । १९२० तमे वर्षे पञ्जाब प्रदेशे जलियनवालाबाग प्रदेशे सहस्रशः जनाः आङ्गलैः मारिताः अभवन् अस्य जालियन् वालाबाग् हत्याकाण्डः इति नाम प्रसिद्धं अभवत् । एतस्य कार्यस्य विरोधेन देशे सर्वत्र आन्दोलनानि चालितानि अभवन् । यदा आङ्गलाः भूमिकरवर्धनं कृतवन्तः तदा गुजरात्कर्णाटक-इत्यादिप्रदेशेषु करनिराकरणान्दोलनम् अभवत् । गुजरातप्रदेशे सरदारवल्लभभायीपटेलः कृषिकाणां नेता आसीत् । कर्णाटके सदाशिवरावकार्नाडः आन्दोलनम् कृतवान् । काङ्ग्रेस संस्थायां गान्धिः जवाहरलालनेहरुः राजेन्द्रप्रसादः इत्यादिनायकाः शान्तिमार्गप्रियाः आसन् । बिपिनचन्द्रपालः लालालजपतरायः सुभाषचन्द्रबोस् इत्यादयः उग्रमार्गप्रियाः आसन् । सुभाषचन्द्रबोस् इत्यादयः उग्रमार्गप्रियाः आसन् । सुभाषचन्द्रबोसः विदेशे स्थित्वा अजाद हिन्द फौज इति सेनां कृत्वा स्वातन्त्र्यप्राप्तये प्रयत्नं कृतवान् । आङ्ग्लानां शासनं विरुद्ध्य असहकारान्दोलनम् अभवत् । तदा भारते प्रान्तीयसर्वकारस्य रचनाऽभवत् । भारतीयनायकाः अपि प्रान्तीयसर्वकारे भागं स्वीकृतवन्तः। १९३९ तमे वर्षे द्वितीय- विश्वयुद्धानन्तरं भारते आङ्ग्लान् उच्चाटयितुं ‘भारतं त्यजत चलेजाव् आन्दोलनम् अभवत् । ध्वजसत्याग्रहः, होमरुल् आन्दोलनम् वङ्गभङ्गान्दोलनम् खिलाफतान्दोलनम् इत्यादिषु सहस्रशः जनाः च कारागृहवासम् अनुभुतवन्तः । आङ्ग्लसर्वकारेण लण्डन् नगरेऽपि चर्चा कृता । अन्ततः १९४७ तमे वर्षे आङ्गलाः भारतं त्यक्त्वा गतवन्तः । स्वातन्त्र्याप्राप्तेः अनन्तरं भारतदेशे अनेकाः समस्याः कष्टदायिकाः अभवन् । अभिवृद्धिकार्यार्थं पञ्चवार्षिकी योजना आरब्धा । कृषि-उद्योग-आरोग्य-शिक्षा-यन्त्रागारः इत्यादिषु क्षेत्रेषु कार्यम् आरब्धम । ग्रामोध्दारः महिलाशिक्षा निरुद्योगपरिहारः, आहारोत्पादनं विद्युदुत्पादनं जलबन्धानां निर्माणम् इत्यादीनि उत्तमकार्याणि कृतानि । भारतदेशे जनसख्या अधिका अस्ति अतः समस्याः अधिकाः भवन्ति । संविधानरीत्या सर्वेषां समानावसरः दत्तः अस्ति । तथापि जना दुर्बलाः दरिद्राः दुःखिताः सन्ति । सर्वेषां कृते उत्तमा योजना कर्तव्या अस्ति । स्वातन्त्र्योत्सवस्य प्रमुखः कर्यक्रमः देहलीनगरे रक्तदुर्गे (लालकिला) प्रधानमन्त्रिद्वारा ध्वजारोहणेन आरब्धः भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्रकटयन् सर्वेभ्यः शुभाशयं यच्छति सर्वेषु राज्येषु राजधानीषु मुख्यमन्त्रिणः ध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति । सर्वत्र संस्थासु विद्यालयेषु कार्यालयेषु ध्वजारोहणं राष्ट्रगीतं च भवति । विद्यालयेषु बालानां विविधस्पर्धाः आयोज्यन्ते। भाषणस्पर्धा, देशभक्तिगीतं समूहनृत्यं , नाटकम् नर्तनं पादयात्रा, पथसञ्चलनम्, प्रदर्शिनीयात्रा, इत्यादि कार्याणि कुर्वन्ति । सर्वत्र दिनेऽस्मिन् स्वातन्त्र्यवीराणां स्मरणं, आत्मार्पणं कृतवतां संस्मरणं वीरगाथाश्रावणं च प्रतिध्वनति । प्रातः काले एव सर्वत्र कार्यक्रमाः प्रचलन्ति । भारतीयत्रिवर्णध्वजः सर्वत्र विराजते । मध्याह्नेऽपि सांस्कृतिककार्यक्रमाः सङ्गीतं नाटकानि आयोज्यन्ते । स्वातन्त्र्योत्सवः कश्चन राष्ट्रियपर्व अस्ति । अस्मिन् सर्वे भारतीयाः सम्भूय भागं स्वीकुर्वन्ति। स्वातन्त्र्योत्सवसमारम्भेषु भारतस्य स्थितिविषये अभिवृद्धिकार्यविषये चर्चा भवति, चिन्तनं कुर्वन्ति । स्वातन्त्र्यप्राप्तिः अतिकष्टेन अभवत् । तस्याः संरक्षणं देशोध्दारकार्यद्वारा कर्तव्यम् अस्ति । राष्ट्रं विदेशीयैः तथा आन्तरिकैः भयोत्पादकैः रक्षितुं सर्वे सन्नध्दाः भवन्तु। स्व स्व कार्यं सम्यक् कृत्वा देशभक्त्या स्वार्थं त्यक्त्वा च तिष्ठन्तु । तत्कृते सङ्कल्पं कुर्वन्तु इति अस्मिन् समये गुरवः मार्गदर्शकाः जनेभ्यः उपदिशन्ति ।

बाह्यानुबन्धः