"यज्ञदानतपःकर्म..." इत्यस्य संस्करणे भेदः
दिखावट
Content deleted Content added
(लघु) clean up, added underlinked tag using AWB |
No edit summary |
||
पङ्क्तिः ५: | पङ्क्तिः ५: | ||
:'''यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥''' |
:'''यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥''' |
||
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चमः(५) श्लोकः । |
|||
==पदच्छेदः== |
==पदच्छेदः== |
||
यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् यज्ञः दानं तपः च एव पावनानि मनीषिणाम् ॥ |
यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् यज्ञः दानं तपः च एव पावनानि मनीषिणाम् ॥ |
०८:०४, १८ नवेम्बर् २०१४ इत्यस्य संस्करणं
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
- यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ ५ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् यज्ञः दानं तपः च एव पावनानि मनीषिणाम् ॥
अन्वयः
यज्ञदानतपःकर्म न त्याज्यं तत् कार्यम् एव । यज्ञः दानं तपः च एव मनीषिणां पावनानि ।
पदार्थः
- यज्ञदानतपःकर्म = यागः दानं तपः च इति कर्म
- कार्यम् = कर्तव्यम्
- मनीषिणाम् = विदुषाम्
- पावनानि = शुद्धिकराणि ।
तात्पर्यम्
यज्ञः दानं तपश्च इति एतत् कर्मत्रयं न सर्वथा वर्जनीयम् । तत् अवश्यं कर्तव्यम् । यतः तत् त्रिविधं कर्म मनीषिणां शुद्धिकरम् ।