"दैवी सम्पद्विमोक्षाय..." इत्यस्य संस्करणे भेदः
दिखावट
Content deleted Content added
(लघु) clean up, added underlinked tag using AWB |
No edit summary |
||
पङ्क्तिः ५: | पङ्क्तिः ५: | ||
:'''मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥''' |
:'''मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥''' |
||
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चमः(५) श्लोकः । |
|||
==पदच्छेदः== |
==पदच्छेदः== |
||
दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव ॥ |
दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव ॥ |
०६:४६, १७ नवेम्बर् २०१४ इत्यस्य संस्करणं
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
- मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ ५ ॥
अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता मा शुचः सम्पदं दैवीम् अभिजातः असि पाण्डव ॥
अन्वयः
पाण्डव ! दैवी सम्पत् विमोक्षाय आसुरी निबन्धाय मता । मा शुचः । दैवीं सम्पदम् अभिजातः असि ।
पदार्थः
- विमोक्षाय = बन्धनाशाय
- निबन्धाय = संसाराय
- मता = अभीष्टा
- मा शुचः = शोकं मा कार्षीः
- दैवीम् = दिव्याम्
- सम्पदम् = सम्पत्तिम्
- अभिजातः = अभिमुखीभूय समुत्पन्नः ।
तात्पर्यम्
दैवी सम्पत् संसाररूपं बन्धनं नाशयति, आसुरी तु तदेव बन्धनं जनयति । त्वं शोकं मा कार्षीः । अभयसत्त्वसंशुद्धिप्रभृतयः गुणाः यथा सम्भवन्ति तथा उत्पन्नोऽसि ।